पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये द्वितीयः पादः । १०५ त्यादिनिषेधशास्त्रस्य निर्गुणैब्रह्मप्रधानत्वादित्यर्थः । उपासनावाक्यानां सविशेषत्वे तात्पर्याभावात् तत्तात्पर्याङ्गीकारे वाक्यभेदापत्तेः इतरेषां सविशेषवाक्यानां प्रत्य- क्षादिसिद्धप्रपञ्चानुवादकत्वेन निर्विशेषपरत्वात् 'तदन्यत्वम्' (२-१-१४) इत्यादिना प्रपञ्चमिथ्यात्वसाधनाच्च न सविशेषत्वं ब्रह्मणः प्रामाणिकमिति भावः ॥ १४ ॥ ननु तर्हि सविशेषश्रुतीनां का गतिरित्यत आह- प्रकाशवच्चावैयर्थ्यम् ॥ १५ ॥ यथा सूर्यादिप्रकाशो वक्रवंशाधुपाधिना वक्र इव ऋजुरिव भवति, तद्वद् ब्रह्मापि पृथिव्याद्युपाधिवशात् तत्तदाकारमिव भवति । तादृशौपाधिकाकारः सवि- शेषश्रुतीनां गतिरिति तासामवैयर्थ्य निरर्थकत्वाभाव इत्यर्थः ॥ १५ ॥ ननु कीदृशं निर्विशेषं ब्रह्मेत्यत आह -- आह च तन्मात्रम् ॥ १६ ॥ 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमा- त्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' (वृ. ४-५-१३) इति श्रुतिस्तन्मात्रं चै- तन्यमात्रं स्वप्रकाशचिदेकरसं निर्विशेषमाहेत्यर्थः ॥ १६ ॥ किञ्च प्रपञ्चप्रत्याख्यानमुखेन ब्रह्मण उपदेशादपि ब्रह्म निर्विशेषमेव । सविशेषत्वे तद्वाक्यैरेव तत्सिद्धेः प्रत्याख्यानोपदेशानर्थक्यं स्यादित्याह- दर्शयति चाथो अपि (च!) स्मर्यते ॥ १७ ॥ 'अथात आदेशो नेति नेति' (बृ. २-३-६) इत्यादिश्रुतिः प्रपञ्चनिषेधमुखे- नैव ब्रह्म दर्शयति । सौत्राथोशब्दस्तथार्थः । तथा स्मर्यते च भगवद्गीतासु नि - षेधमुखेन ब्रह्म 'अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते' (गीता. १३-१२) इति ॥ १७ ॥ किञ्च विशिष्टदृष्टान्तोक्तिरपि निर्वेशेषत्वमस्य गमयतीत्याह- अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ यत एवायमात्मा चैतन्यैकरसः परप्रतिषेधोपदेश्यो निर्विशेषः, अत एवौ - १. 'णप्रधा' क पुस्तके पाठ:. २. 'त्याद्यानु' खपुस्तके पाठः