२३० बृहन्नीलतन्त्रम् । संहृत्य तत्र दद्याच्च सीसकं रूप्यतां व्रजेत् । इति ते कथितं सर्वं सर्वसारस्वतप्रदम् ॥ १० ॥ प्रयोगार्हो भवेद् देवि सत्यं सत्यं वरानने । इदानीं शृणु चार्वङ्गि सूतभस्म तथैव च ॥ ११ ॥ येन विज्ञानमात्रेण मंत्रसिद्धिर्भवेत् प्रिये । सार्धहस्तप्रमाणेन गतं कृत्वा तु देशिकः ॥ १२ ॥ हरिद्रागोमयेनाथ लेपयेत् परमेश्वरि । ततस्तु गजमूत्रेण भस्म कुर्याद् यथाविधि ॥ १३ ॥ वैजयन्त्याश्च मूलेन तथा सिद्धरसेन च । करीषकेण देवेशि भसीकुर्याद् विधानतः ॥ १४ ॥ शुद्धसूतं समादाय मङ्गले वासरे निशि । ऊर्ध्वाधो लवणं दत्त्वा भस्मीभवति तत्क्षणात् ॥ १५ ॥ अश्वत्थपल्लवेनैव संयुक्तं परमेश्वरि । सूतभस्म भवत्येव परेशि नात्र संशयः ॥ १६ ॥ अश्वदन्तेन देवेशि वाजिमारेण चैव हि । संयुक्तसूतं तत्रत्यं भस्मीभवति तत्क्षणात् ॥ १७ ॥ धातुना सह युक्तं तद् बद्धीभवति सुन्दरि । पातालरसकेनैव भवेच्च स्वर्णमुत्तमम् ॥ १८ ॥ आदौ च गुलिकां बद्ध्वा पश्चाद् रसेन ताडयेत् । ततो बद्धीभवत्येव सत्यं गुरुगणार्चिते ॥ १६ ॥ त्रिरात्रस्य विधानेन जपं कुर्याच्छुचिस्मिते । ततः प्रयोगो देवेशि सिद्धो नास्त्यत्र संशयः ॥ २० ॥ भावनारससंपन्नो भवेद् योगी महाकविः । भावस्य निर्णयं देवि कथितमपि शोभने ॥ २१ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२५५
दिखावट