अथ एकविंशः पटलः । (श्रीभैरव उवाच ।) अथ वक्ष्ये महेशानि तत्त्वसारं पुरातनम् । येन विज्ञानमात्रेण कुबेर इव जायते ॥ १ ॥ ताम्रसीसकमेतत्तु पित्तलं चापि यत्नतः । चतुर्हस्तप्रमाणं हि गर्तं कृत्वा तु साधकः ॥ २ ॥ सरलं भस्म कुर्याच्च विवर्जाङ्गारसंयुत्तम् । करीषमर्धसं(युक्तं शुष्कं)ताम्रस्योपरि पूरितम् ॥ ३ ॥ तापयेत् परमेशानि दिनानि सप्त चैवहि । ततः प(रे?रं)महेशानि उत्तोल्य यत्नतः शिवे ॥ ४ ॥ पात्रे लोहमये देवि तमादाय महेश्वरि । वि(वज?वर्जा)ङ्गारजैर्देवि अलातैस्तापयेद् दृढम् ॥ ५ ॥ द्रवीभूतं तथा ताम्रं येन जायेत सुन्दरि । तदर्धं च रसं तत्र दद्यात् प्रयतमानसः ॥ ६ ॥ विजावरसकेनैव अटरूपरसेन च । सिंहिकारसकेनाथ युक्तं कुर्याद् महेश्वरि ॥ ७ ॥ ततश्च स्वर्णं जायेत सत्यं सुरगणार्चिते । मूलमत्रस्य जाप्येन सिद्ध्यत्येव न संशयः ॥ ८ ॥ सहस्रदशजापेन सिद्ध्यत्येव न संशयः । पूर्वोक्तेन रसेनैव शुद्धसूतेन वा पुनः ॥ ६ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२५४
दिखावट