८६ बृहन्नीलतन्त्रम् । भीतिलज्जाजुघुप्साद्या निद्रातन्द्राभ्रमादयः । अविपाको विभ्रमश्च शोकचिन्तादिकाः परे ॥ ३१६ ।। भवन्ति विविधा भावा भूतानां देहधारिणाम् । देहव्यपाये नयनं भूतानां देहधारणे ॥ ३२० ॥ तत्रैव मन एवाहमात्मारामा सनातनी । अतस्तु तारिणीं देवि मम तेजःस्वरूपिणीम् ॥ ३२१ ॥ जानीहि भक्तिसंयुक्तां तामाश्रय विधानतः । मलापकर्षिते देहे सम्यग् दीपिततेजसि ॥ ३२२ ॥ ध्यानयोगे स्थिरत्वं च बलित्वं चोपलभ्यते । नाजीर्णो दुर्बलो रोगी भीरुश्चिन्तापरिप्लुतः ॥ ३२३ ॥ सुरासंसेवनाद् देवि नैते दोषा भवन्ति हि । अन्ये च बहवो दोषा नश्यन्ति मुक्तियोगतः ॥ ३२४ ।। शापाश्चञ्चलचित्तानां ब्रह्मादीनामिहोदिताः । मन्त्रेण तां समुद्दिश्य मम पूजापरो भव ॥ ३२५ ।। त्वत्स्वरूपां महादेवि तां विद्धि सर्वदा प्रिये । तया विना मनो नित्यं मालिन्यं न परित्यजेत् ॥ ३२६ ॥ परित्यक्ते तु मालिन्ये मनो देहं च रूपभाक् । अतः सुरां समाश्रित्य साधनं कुरु यत्नतः ॥ ३२७ ॥ इदानीं शृणु चार्ावङ्गि शाक्ताचारं वरानने । येन विना न सिद्धिः स्यात् कल्पकोटिशतैरपि ॥ २८ ॥ मधु मांसं च मत्स्यं च मैथुनं महिला तथा । पञ्चमानां समाकृत्या पञ्चमी त्वत्स्वरूपिणी ॥ ३२६ ।। नत्वा स्तुत्वा च तां देवीं पूजयित्वा सदा शुचिः । सुरा जनी च शक्तिः स्यान्मम रूपस्वरूपिणी ॥ ३३० ॥ .
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१११
दिखावट