RV. viii. 21 - ] BRHADDEVATĀ vi. 61– ऋषिं बोवाच हृष्टात्मा नाहमहीम्यृषे स्तुतिम् ॥६१॥ तिर्यग्योनौ समुत्पन्नो देवता स्तोतुमर्हसि । तमन्यया पुनश्चास्तौद् ओ त्यं सूक्तेन चाश्विनौ ॥ ६२ ॥ ईळिष्वेत्येतदाग्नेयं सखायश्चैन्द्रमुत्तरम् । यथा वरो सुषाम्ण इत्य् उत्तमस्त्वौषसस्तृचः ॥ ६३ ॥ अष्टौ तु सहितास्वेता देवता विभिदुर्वलम् । उषाश्वेन्द्रश्च सोमश्च अग्निः सूर्यो बृहस्पतिः ॥ ६४ ॥ अङ्गिराः सरमा चैव ता वामित्युत्तरस्य तु । आदौ मैनावरुण्यस्तु नव वादश तूत्तराः ॥ ६५ ॥ वैश्वदेव्यो वरू राजा यञ्चादादृषये वसु । कीर्तितं तत्तृचे त्वस्मिन् ऋजमुक्षण्यायने ॥६६॥ Bअश्विनौ ददतुः प्रीतौ तदिहोक्तं सुषामणि । आश्विनं तु युवोर्युक्ष्व वायव्या उत्तरास्तु याः ॥ ६७ ॥ यं सवर्णी मनुनीम लेभे पुत्रं विवस्वतः । वैश्वदेवानि पञ्चैतान्य् अनिरुक्थे जगाद सः ॥ ६ ॥ बधुरेक इति त्वेता लिङ्गतो विपदा दश । स्नूयन्ते देवता ह्यासु कर्मभिः स्वैः पृथक्पृथक् ॥६९॥ स्तुताः कर्मगुणैः स्वैः स्वैर् देवता यत्र तत्र तु । पृथक्कर्मस्तुतिनीम वैश्वदेवं तदेव तु ॥ ७० ॥ तासां बभ्रुरिति लाद्या सौम्याग्नेयी त्वगुत्तरा | वाष्ट्री चैन्द्री च रौद्री च पौष्णी वैष्णव्यृगाश्विनी ॥७१॥ नवमी मैनावरुणी ऋग्दशम्यचिसंस्तवः | यजमानप्रसङ्गाच य इत्याच प्रकीर्तिता ॥७२॥ Bयो यजाति वृचे शक्रो यजतां पतिरीळितः । Bतस्य द्युमान् वृचे यज्वा चतसृष्वपि मक्ष्विति ॥७३॥ [70 १३॥ १४ ॥
पृष्ठम्:बृहद्देवता.djvu/१०१
दिखावट