पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ गणेशपञ्चरत्नम् ॥

मुदा करातमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम् ।
अनापकैकनायकं विनाशितभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१
नतेतरातिभीकरं नवोदितार्कभाखरं
वमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेवर निधीश्वरं गजेश्वरं गणेश्वर
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२
समस्खलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।