पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
गणेशपञ्चरत्नम्

प्रपञ्चनाशभीषणं धनञ्जयाविभूषणं
कपोलदानवारणं भजे पुराणवारणम् ॥४
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५
महागणेशपश्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्ठभूतिमभ्युपैति सोऽचिरात् ॥ ६
इति श्रीपरमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
॥श्रीशङ्करभगवतः कृतौ गणेशपञ्चरत्नं समाप्तम् ॥