पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद्भूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४.
दानाम्भःपरिमेदुरप्रसृमरव्यालमिव रोलम्बभृ-
त्सिन्दूरारुणगण्डमण्डलयुगव्याजाप्रशस्तिद्वयम् ।
त्रैलोक्येष्टविधानवणेसुमर्ग यः पद्मरागोपमं
धत्ते स श्रियमावनोतु सततं देवो गणानां पतिः ॥
भ्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिीचिच्छटा-
सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वकषा: ।
दिक्कान्ताघनसारचन्दनरसासाराः श्रयन्तां मनः
स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः॥ ६
मुक्ताबालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा
कान्ताः कम्बुकदम्बचुम्बितवनाभोगप्रवालोपमाः
ज्योत्स्नापूरवरङ्गमन्थरतरत्सन्ध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरविषः ॥
शुण्डाग्राकलितेन हेमकलोनावर्जितेन क्षर-
मानारत्नचयेन साधकजनान्सम्भावयन्कोटिशः।