पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ गणेशमहिमस्तोत्रम् ॥
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित-
स्तवा वक्ष्ये स्त्रोत्रं प्रथमपुरुषस्यात्र महतः।
यतो जातं विश्वं स्थितमपि सदा यत्र विलय:
स कीनग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः॥ १
गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा:
रषिं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।
वदन्त्येक शाक्ता जगदुदयमूलां परशिवां
न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २
वथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।
अजां साङ्ख्यो ब्रूते सकलगुणरूपां च सततं
प्रकारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३
कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-
र्बथाधीर्यस्य खात्स च तदनुरूपो गणपतिः ।