पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
गणेशमहिमस्तोत्रम्

महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुव-
द्ध्वनिर्ज्योतिबिन्दुर्गगनसदृशः किञ्च सदसत् ॥ ४
अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-
स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्वः शच्या विविधगुणकर्मैकसमये
त्वसङ्ख्यापातानन्ताभिमतफरदोऽनेकविषये ।।५
न यस्यान्तो मध्यो न च भवति चादिः सुमहता-
मलितः कृत्वत्थं सकलमपि खंवत्स च पृथक् ।
स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियकरो
नमस्तस्मै देवाय सकलसुवन्याय महते ॥ ६
गणेशाद्यं बीजं वहनवमितापल्लवयुत
मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदः ।
सबिन्दुश्चाङ्गाद्या गणकऋषिछन्दोऽस्य च निचृत्
स देवः प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ॥ ७
गकारो हेरम्बः सगुण इति निर्गुणमयो
द्विधाप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।