पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७
आरात्रिकं सुकर्पूरं नानादीपमयं प्रभो ।
गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ ४८
पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो।
एकं तु सप्तवारं वै सर्वाङ्गेषु निरञ्जनम् ॥ ४९
चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५०
पञ्चप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१
एकविंशतिसङ्ख्यं वा त्रिसङ्ख्यं वा गजानन ।
प्रादाक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२
साष्टाङ्गां प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३
न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान्प्रभो ।
समर्पयामि तेन त्वं साङ्गां पूजों कुरुष्व ताम् ॥५४