पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


प्रदक्षिणा मानसकल्पितास्ता
   गृहाण लम्बोदर भावयुक्ताः ।
सङ्ख्याविहीना विविधस्वरूपा
   भक्तान्सदा रक्ष भवार्णवाद्वै ॥ ७२
नतिं ततो विघ्नपते गृहाण
   साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते
   सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३
न्यूनातिरिक्तं तु मया कृतं चे-
   त्तदर्थमन्ते मनसा गृहाण ।
दूर्वाङ्कुरान्विघ्नपते प्रदत्तान्
   सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४
क्षमस्व विघ्नाधिपते मदीयान्
   सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व
   सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५