पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
गणेशमानसपूजा


ततः प्रसन्नेन गजाननेन
   दत्तं प्रसादं शिरसाभिवन्द्य ।
स्वमस्तके तं परिधारयामि
   चित्तेन विघ्नेश्वरमानतोऽस्मि॥ ७६
उत्थाय विघ्नेश्वर एव तस्मा-
   द्गतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
   गताः सुचित्तेन च चिन्तयामि ॥ ७७
सर्वान्नमस्कृत्य ततोऽहमेव
   भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावै-
   र्भक्तैर्गणेशस्य च खेलयामि ॥ ७८
एवं त्रिकालेषु गणाधिपं तं
   चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं
   विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९