पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नटेशसहस्रनामस्तोत्रम् ५३१

वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्भभृत् ॥ १८ वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः । वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंतुतः ॥ १९ वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः । समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ २० सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः । जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ २१ शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः । अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ २२ सुधारूपः सुराध्यक्षः सुभ्रू: सुखधनः सुधीः । भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ २३ भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः । अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ २४ पवित्रः परमोदारः परमापन्निवारकः । सनातनस्स्मः सत्यः सत्यवादी समृद्धिदः ॥ २५ धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः ।