पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३२ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ २६ राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः । गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ २७ पतञ्जलिप्राणनाथ: परापरविवर्जितः । परमात्मा परंज्योतिः परमेष्ठी परात्परः ॥ २८ नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः । नमदानन्ददो नम्यो नगराजनिकेतनः ॥ २९ दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः । कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ ३० ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः । सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ ३१ अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः । सर्वविद्यानामीशानईश्वराणामधीश्वरः ॥ ३२ सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः । सर्वज्ञः सर्वदः स्थाणुः सर्वशस्समरप्रियः ॥ ३३ जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः ।