पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७७
वटुकभैरवसहस्रनामस्तोत्रम्

अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ।। १०१
वाणीशो वचनप्राणो वचनस्थो वनप्रियः ।
वेलाधारो दिशामाशो दिग्भागो हि दिगीश्वरः ॥ १०२
पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः ।
तर्कतर्कप्रियोऽतर्क्यो वितर्क्यस्तर्कवल्लभः ॥ १०३
तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः ।
ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ १०४
मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः ।
मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ १०५
बुधेशो विविधाधीशो बुधवारो बुधाकरः ।
बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०६
बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः ।
सोमः सोमसमाकारः सोमपा: सोमनायकः ॥ १०७
सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः।
कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ १०९
त्रिदशो दशरात्रीशो दशाननविनाशकः ।