पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४७
मृत्युञ्जयमानसिकपूजास्तोत्रम्

जम्बीरनीराश्चितशृङ्गबेरं
मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व
मृत्युञ्जय श्रीकरुणासमुद्र ॥३२
नागररामठयुक्तं सुललित
जम्बीरनीरसम्पूर्णम् ।
मथितं सैन्धवसहितं पिब
हर मृत्युञ्जय क्रतुध्वंसिन् ॥ ३३
मन्दारहेमाम्बुजगन्धयुक्तै-
र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ।
गगनधुनीविमलजलैः मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं प्रक्षालय चारुहस्तपादयुग्मम् ॥
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥