पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९८
बृहत्स्तोत्ररलाकरे - प्रथमभाग:

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्रौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शम्भो तव पदे
श्वितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥
असारे संसारे निजभजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृतया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-
स्स्वदन्यः को वा मे-त्रिजगति शरण्यः पशुपते ?॥
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकला:
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥१४
उपेक्षा नो चेत्किं हरसि भवद्ध्यानविमुखां
दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं न न खलु सुवृत्तं पशुपते
का वा निर्यत्नं करनखमुखेनैव लुलितम् ? ॥ १५