पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४८ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

यद्दर्शनात्पातकमाशु नाशं
प्रयाति तं त्र्यम्बकमीशमीडे॥ ८
सुताम्रपर्णीजलराशियोगे
निबध्य सेतुं विशिखैरसंख्यैः।
श्रीरामचन्द्रेण समर्पितं तं
रामेश्वराख्यं नियतं नमामि ॥ ९
यो डाकिनीशाकिनिकासमाजै-
र्निषेव्यमाणः पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धः
तं शङ्करं भक्तहितं नमामि ॥ १०
सानन्दमानन्दवने वसन्त-
मानन्दकन्दं हतपापबृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११
इलापुरे रम्यविशालकेऽस्मि-
न्समुल्लसन्तं च जगद्वरेण्यम्।