पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४७ द्वादशज्योतिलिङ्गस्तोत्रम्

सदैव मान्धातृपुरे वसन्त -
मोङ्कारमीशं शिवमेकमीडे॥ ४
पूर्वोत्तरे प्रज्वलिकानिधाने
सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं तमहं नमामि ॥ ५
याम्ये सदङ्गे नगरेऽतिरम्ये
विभूषिताङ्गं विविधैश्च भोगैः।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ॥ ६
महाद्रिपार्श्वे च तटे रमन्तं
सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः
केदारमीशं शिवमेकमीडे॥ ७
सह्याद्रिशीर्षे विमले वसन्तं
गोदावरीतीरपवित्रदेशे।