पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

वृषाधीशमारुह्य देवोपवाह्यं
तदा वत्स मा भीरिति प्रीणय स्वम् ॥ २०
यदा दारुणा भीषणा भाषणा मे
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ॥ २१
यदा दुर्निवारव्यथोऽहं शयानो
लुठन्निश्वसन्निःसृता व्यक्तवाणिः ।
तदा जह्नुकन्याजलालङ्कृतं ते
जटामण्डलं मन्मनोमन्दिरं स्यात् ।। २२
यदा पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा कीदृशीयं दशेति।
तदा देवदेवेश गौरीशः शम्भो
नमस्ते शिवायेत्यजसं ब्रवाणि ॥ २३
यदा पश्यती मामसौ वेत्ति नास्मा-
नयं श्वास एवेति वाचो भवेयुः ।