पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥शिवभुजङ्गम् ॥

गलद्दानगण्डं मिलद्भङ्गाषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
लसद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १
अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमेकं तुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महः शैवमीडे॥ २
स्वशक्त्यादिशक्तयन्तसिंहासनस्थं
मनोहारिसर्वाङ्गरत्नादिभूषम् ।
जटाहीन्दुगङ्गास्थिशश्यर्कमौलिं
परं शक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३
शिवेशानतत्पूरुषाघोरवामा-
दिभिर्ब्रह्मभिः हृन्मुखैः षड्भिरङ्गैः ।