पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गणपतिसहस्रनामस्तोत्रम्


कटिङ्कटो राजपुत्रश्शकलस्सम्मितोऽमितः॥
कूश्माण्डगणसम्भूतो दुर्जयो धूर्जयोऽजयः।
भूपतिर्भुवनेशश्च भूतानां पतिरव्ययः॥
विश्वकर्ता विश्वमुखो विश्वरूपो निघिर्घृणिः।
कविः कवीनाभृषभो ब्रह्मण्यो ब्रह्मणस्पतिः॥
ज्येष्ठराजो निधिपतिः निधिप्रियपतिप्रियः।
हिरण्मयपुरान्तस्थः सूर्यमण्डलमध्यगः॥
कराहतिघ्वस्तसिन्धुसलिलः पूषदन्तभृत्।
उमाङ्गकेळिकुतुकी मुक्तिदः कुलपालकः॥
किरीटी कुण्डली हारी वनमाली मनोमयः।
वैमुख्यहतदृश्यश्रीः पादाहत्याजितक्षितिः॥
सद्यो जातः स्वर्णभुजः मेखली दुर्निमित्तहृत्।
दुस्स्वप्नहृतदृश्यश्रीः गुणी नादप्रतिष्ठितः॥१३
सुरूपस्सर्वनेत्राधिवासो वीरासनाश्रयः।
पीताम्बरः खङ्गधरो खण्डेन्दुकृतशेखरः॥