पृष्ठम्:बीजगणितम्.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणीषद्विषम् | भाज्यास्तथा भाज्यगताः करण्यो लब्धाः करण्यो यदि योगजाः स्युः | विश्लेषसत्रेण पृथक्च कार्या- स्तथा यथा प्रष्टुरभीप्सिताः स्युः ॥ १७ ॥ तथा च विश्लेषसूत्रं वृत्तम्- वर्गेण योगकरणी विहता विशुध्ये- त्खण्डानि तत्कृतिपदस्य यथेप्सितानि | कृत्वा तदीपकृतयः खलु पूर्वलन्ध्या क्षुण्णाः भवन्ति पृथगेवमिमाः करण्यः ॥१८॥ द्वितीयोदाहरणे ( भाज्य: क २५६३०० | भाजकः क २५ २७) कियद्गुणो याजको भाज्या च्छुप्यतीति दुरवबोध- मतः परमकरुणाशालिन आचार्या: शिष्यवोधार्थमुपायान्तरमुप जातिकाइयेन निरूपयन्ति – धनतेति | छेदे ईप्सिताया एकस्याः करण्या घनर्णताविपर्यासं कृत्वा तादृशेन वेदेन यथास्थितौ भाज्य- हरौ गुपयेत् । एवं कृते करणीनां यथोक्त्या योगे च कृते भाज्य- भाजकस्त । अस्मिन्नपि भाजके यदि द्वयादीनि करणीखण्डानि स्थुस्तदात्रापि एकस्याः करण्या घनर्णताविपर्यासं कृत्वा तादृश- भाजकेन पूर्वगुणसंपन्नौ भाज्यभाजको गुणयेत् । तत्रापि यथा- संभव करणीयोगे कृते तो भाज्यभाजको स्तः । एवमसकृत् ताव- द्वियं यावद् भाजके एकैव करगी भवेत् । श्रथ संपन्नया भाजक करण्या भाज्यकरण्यो रूपवदेव भाज्याः, यल्लभ्यते ता लब्धि- करख्यो भवन्ति । अथ यदि लब्धाः करण्यो योगजाः स्युर्न पुनः मधुरभीप्सितास्तदा वक्ष्यमाण विश्लेषसूत्रेण तथा पृथक्कार्या यथा- --- ६७