पृष्ठम्:बीजगणितम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से गणितशैली भारतीयैर्दत्तहस्तावलम्बा लुप्ता मायूद् एतदर्थमन विशिष्य माचीनपरिपाटया गणितजातं विश्वविद्यालय छात्रतुष्टयै प्रदर्शि । किं बहुना, यथा विस्मृतबीजगणितानामपि ग्रन्थपाठमात्रेणा- धीतस्मरणं स्याद् यथा वा परीक्षाकामुकानां गणितकरणमन्तरेण बोध: स्यात्, तथात्र प्रयत्नोऽकारि । भवति चात्र श्लोकः- " अत्युत्तानतरप्रमेय रचनापारम्परीबन्धुरं स्पष्टोदाहरणक्रम कचिदहो नूत्रक्रियामांसलम् | एवं बालकबोधसाधनकृते टीकान्तरेभ्योऽधिकं भाषाभाष्यमिदं पठन्तु गणका व्युत्पत्तिसंपत्तये ॥ एतदेव श्रीमद्भास्करीयं बीजगणितं संप्रति सर्वत्र पठनपाठन- व्यवहारेषु प्रवर्तते । श्रीधरपद्मनाभबीजे तु नामतो ज्ञायेते । यद् ब्रह्मगुप्तवीजे ब्राह्मस्फुटसिद्धान्तान्तर्गतं दृश्यते, तत्तु शब्दार्थतः संकुचितमेव । एकं बीजं ज्ञानराजदैवज्ञैरूपनिबद्धं तदपि स्वल्पम् । एवं नारायणीयवीजमपीति दिक् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:बीजगणितम्.pdf/६&oldid=382835" इत्यस्माद् प्रतिप्राप्तम्