पृष्ठम्:बीजगणितम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णमध्यमाहरणम् | प्रथाव्यक्तवर्गादिसमीकरणम्, तच 'मध्यमाहर- म्' इति व्यावर्णयन्त्याचार्याः । यतोऽत्र वर्गराशा- वेकस्य मध्यमस्याहरण मिति । तत्र सूत्रं वृत्तत्रयम्- अव्यक्तवर्गादि यदावशेषं पक्षौ तदेष्टेन निहत्य किंचित् । क्षेप्यं तयोर्येन पदप्रदः स्या- दव्यक्तपक्षोऽस्य पदेन भूयः ॥ ५६ ॥ व्यक्तस्य पक्षस्य समक्रियैव- मव्यक्तमानं खलु लभ्यते तत् । न निर्वहश्चेवनवर्गवर्गे- ब्वेवं तदा ज्ञेयमिदं स्वबुद्धया ।। ६० ।। अव्यक्तमूलगरूपतोऽल्पं व्यक्तस्य पक्षस्य पदं यदि स्यात् । ऋणं धनं तत्र विधाय साध्य- मन्यक्रमानं द्विविधं कचित्तत् ॥ ६१ ॥ ३०७ पूर्व समशोधनादिना यथैकस्मिन्पक्ष एकजातीयमव्यक्कमेव पर पक्षे च व्यक्कमेव भवति तथापवर्तनादिनोपायेन संपाद्य प्रश्नभङ्ग उक्न, संप्रति यद्यपवर्तेनापि तथा न भवति तत्र मध्यमाहरणलक्षण- मुपायान्तरमिन्द्रवज्रोपजातिकाभ्यां चाह-अव्यक्तवर्गादीत्यादिना । एतानि सूत्राण्याचार्यख्यातत्वात्पुनर्न व्याख्यायन्ते । एकवर्ण मध्यमाहरण-- पहिले समशोधन आदि क्रियाकलाप के द्वारा जैसे एकपक्षमें एकजाति