पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/28

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २७ )
नीति कथा माला ॥

बककर्कटकयोः
कथा ( १२ )

 १. अस्ति कस्मिंश्चित् वने विविधैः जलचरैः अधिष्ठितं महत् सरः । तत्र च एको बकः, वृद्धभावम् उपागतः, मत्स्यान् व्यापादयितुम् असमर्थः प्रतिवसति । स कदाचित्, क्षुधया क्षामकण्ठः सरसः तीरे उपविष्टः, अश्रुप्रवाहैः धरातलम् अभिषिञ्चन् रुरोद ।

 २. एकः कुलीरकः, नानाजलचरैः सह समेत्य, तस्य दुःखेन दुःखितः सादरम् इदम् ऊचे, "माम ! किम् अद्य त्वया न भोजनं क्रियते ? केवलम् अश्रुपूर्णाभ्यां नेत्राभ्यां सनिःश्वासेन स्थीयते ।" स आह, "वत्स ! सत्यम् उपलक्षितं भवता । मया हि मत्स्यानाम् अदनं प्रति वैराग्यतया प्रायोपवेशनं कृतम्, तेन अहं समीपम् आगतान् अपि मत्स्यान् न भक्षयामि !”

 ३ तत् श्रुत्वा कुलीरकः प्राह, “किंतस्य वैराग्यस्य कारणम् ?" स प्राह, "वत्स ! अहम् अस्मिन् सरसि जातः, वृद्धिं गतश्च । तत् मया एतत् श्रुतं, ‘यत् द्वादशवार्षिकी अनावृष्टिः लग्ना सम्पद्यते' । तत्, एतत् सरः स्वल्पतोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के, यैः सह अहं वृद्धिं गतः सदैव क्रीडितश्च, ते सर्वे तोयस्य अभावात् नाशं यास्यन्ति । तत् तेषां वियोगम् अहं द्रष्टुम् असमर्थः । तेन एतत् प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्पानां जलाशयानां जलचराः गुरुषु जलाशयेषु स्वैः स्वैः जनैः नीयन्ते । अत्र पुनः सरसि ये जलचराः, ते निश्चिन्ताः सन्ति तेन अहं विशेषात् रोदिमि, यत् बीजशेषमात्रम् अपि अत्र न उद्धरिष्यति ।"