पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/27

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २६ )
महाचतुरकस्य शृगालस्य

चिरात् दृष्टोऽसि ? कथञ्च बुभुक्षितं इव लक्ष्यसे ? तत् अतिथिः असि मे । एष गजः सिंहेन हतः तिष्ठति । अहं च अस्य, तेन आदिष्टः रक्षपालः । परं तथापि यावत् सिंहः न समायाति, तावत् अस्य गजस्य मांसं भक्षयित्वा, तृप्तिं कृत्वा द्रुतं व्रज ।

 ८. स आह "माम ! यदि एवं, तत् न कार्यं मे मांसाशनेन । यतः 'जीवन् नरः भद्रशतानि पश्यति' । तत् अहम् इतः अपयास्यामि" । शृगाल आह “भो अधीर ! विश्रब्धः भूत्वा भक्षय त्वम् । तस्य आगमनं दूरतोऽपि तव अहं निवेदयिष्यामि" । तथा अनुष्ठिते, द्वीपिना भिन्नां त्वचं विज्ञाय जम्बूकेन अभिहितम्, "भगिनीसुत ! गम्यताम्, एष सिंहः समायाति !" तत् श्रुत्वा चित्रकः दूरं प्रनष्टः ।

 ९. अथ, यावत् असौ किञ्चित् मांसं भक्षयति, तावत् अतिसंक्रुद्धः अपरः शृगालः समाययौ । अथ तम् आत्मतुल्यपराक्रमं दृष्ट्वा एनं श्लोकम् अपठत् ।

'उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत्,
नीचमल्पप्रदानेन, समशक्तिं पराक्रमैः ।'

ततः स्वदंष्ट्राभिः तं विदार्य स्वयं चिरकालं हस्तिनो मांसं बुभुजे ।