पृष्ठम्:प्रस्थानभेदः.djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
प्रस्थानभेदः ।

चतुरध्यायी शारीरकमीमांसा 'अथातो ब्रह्मजिज्ञासा' इत्यादिः 'अनावृत्तिः शब्दात्' इत्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुः श्रवणाख्यविचारप्रतिपादकान्न्यायायानुपदर्शयन्ती भगवता बादरायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यगभिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । तत्र च प्रथमे पादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि । द्वितीये तु अस्पष्टब्रह्मलिङ्गानि उपास्यब्रह्मविषयाणि । तृतीये पादे अस्पष्टब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेण वाक्यविचारः समापित: । चतुर्थपादे तु प्रधानविषयत्वेन संदिह्यमानान्यव्यक्ताजादिपदानि चिन्तितानि । एवं वेदान्तानामद्वितीये ब्रह्मणि सिद्धे समन्वये, तत्र संभावितं स्मृतितर्कादिविरोधमाशङ्क्य तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपादितम्, स्वपक्षस्थापनपरपक्षनिराकरणरूपपर्वद्वया