पृष्ठम्:प्रस्थानभेदः.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
प्रस्थानभेदः ।

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्याय्यात्मकं वैशेषिकं शास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ॥

 एवं मीमांसापि द्विविधा कर्ममीमांसा शारीरकमीमांसा चेति । तत्र द्वादशाध्यायी कर्ममीमांसा 'अथातो धर्मजिज्ञासा' इत्यादि: 'अन्वाहार्ये च दर्शनात्' इत्यन्ता भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणम्, धर्मभेदाभेदौ, शेषशेषिभावः, क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेष:, श्रुत्यर्थपठनादिभिः क्रमभेदः, अधिकारविशेष:, सामान्यातिदेशः, विशेषातिदेश:, ऊह:, बाध:, तन्त्रम्,प्रसङगश्चेति क्रमेण द्वादशानामध्यायानामर्थः । तथा संकर्षणकाण्डमप्यध्यायचतुष्टयात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव । तथा