पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

86 ४-१०. परमेवाक्षरं प्रतिपद्यत इति । इदं पूर्वान्वितं कृत्वा पूर्वं व्याख्यातम् । परेणाप्यन्वयः सुवचः । “य तदच्छायं ... शुभ्रमक्षरे वेदयते सः परमेवाक्षरे प्रतिपद्यते । स सर्वज्ञः सर्वो भवति" इति । एवं सति 'स परमेवाक्षरं प्रतिपद्यते । स सर्वज्ञः सर्वो भवति' इति वाक्यभेदेनाक्तमर्थं एक्वाक्यत्या प्रदर्शयन् भाष्यकार: ‘परमेवाक्षरं वासुदेवं प्रतिपद्य सर्वज्ञो भवति' इति ल्यबन्तं घटयतीत्युपपत्तेः पूर्वत्रास्यापकर्षोऽनपेक्षित इति द्रष्टव्यम् । नन्वत्र 'वेदयते यस्तु' इत्युपासनं 'परमेवाक्षरं प्रतिपद्यते । सर्वज्ञो भवति' इति मोक्षफलं चोच्यते । तयोरत्र का सङ्गितिरिति चेत् अत्रोच्यते । सर्वसम्प्रतिष्ठास्थानं परमात्मे- युक्ते साहजिकी ह्येषा श्रोतुर्जिज्ञासा-स पर आत्मा कीदृशः, स किं प्राप्तुं शक्यः, स कथं प्राप्तव्यः, तत्प्राप्तौ । प्राप्तुः : को विशेष इति । तां स्वयमुत्प्रेक्ष्य भगवान् पिप्पलादः सङ्ग्रहणैवं समादधातीति । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्' इति मुण्डकोक्तरीत्या सर्वस्याप्युपदेशस्य परमात्मवेदने तदधिगमे च पर्यवसानस्य वाच्यत्वाच्च स भगवानेवमुपदेशमुपसंहरतीति च ज्ञेयम् । 'तेषामेवासौ विरजो ब्रह्मलोकः', 'विज्ञायामृतमश्नते ' इति पूर्वत्रापि ह्येवमुक्तम् । ६-१. सुकेशा भारद्वाज इति । षट्सु ऋषिषु अयमभिज्ञतमः | तस्मादस्य उपनिषदुपक्रमे प्रथम निर्देशः । एवमितरेष्वपि पौर्यापर्ये ज्ञानतारतम्यं हेतुरिति ज्ञेयम् । प्रश्न- क्रमे तु तत्तत्प्रकरणोक्तरीत्या अर्थक्रमो हेतुः | इमे हि ऋषयः प्रश्नकरणात् पूर्वं स्वस्वजिल्लासितं परस्परमावेध पर्यालोच्य, आदौ प्रजासृष्टिविषयः प्रश्नो भवितुमर्हति । तत: इन्द्रियविषयः । ततः प्राणविषयः । इत्यादिरीत्या क्रमान्तर निर्धार्य तदनुसारेणैव प्रश्नमकुर्वन्निति | $