पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
४. ३-४ .
श्रीरङ्गरामानुजभाष्ययुक्ता

बाह्यज्ञानेन्द्रियकर्मेन्द्रियाणि स्वपन्ति, इत्युत्तरमुक्तं भवति । प्रत्येकमेकत्वाभिप्रायेण स्वपितीत्येकवचनम् । शिष्टं स्पष्टम् । । २ ।।

एतत्सर्वमिति । तदेतदोरत्र नाम्नि विशेष इति बोध्यम् । किं तत्सर्वमिति जिज्ञासायां तेन तीति उत्तरेणोपपादकवचनेन लभ्यमर्थमाह -इन्द्रियजातमिति : एकीभवनानुगुणतया एकवचनमिति विभाव्वम् । दृष्टान्ते मरीचोनां विशिष्योपादानात बहुत्वमवर्जनीयम् । बाह्येति । आन्तरं मनइन्द्रियमेकं विना अन्यानि सर्वाणीन्द्रियाणि स्वपन्तीत्युक्तमिति भावः । स्वपितीत्याचक्षत इति । अस्यानन्तरं 'ताः पुनरुदयतः प्रचरन्ति ' इति दृष्टान्तचर . मांशानुरोधेन 'तत पुनः प्रबुध्यमानस्य प्रचरति' इत्यनुसन्धेयम् ! प्रकृतानुपयुक्तत्वातु श्रुतिः स्पष्टं न ब्रवीति। प्राणाग्रय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः ।। ३ ।।

यदुच्छासनिश्वासावेतावाहुती समं नयतीति स' समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्बह्म गमयति ।। ४ ।।

कान्यस्मिन् जाग्रतीत्यस्योत्तरमाह – प्राणाग्नय इति । प्राणापानादिरूपा अग्नय एवैतस्मिन् पुरशब्दनिर्दिष्टे शरीरे जागरणं कुर्वन्तीत्यर्थः । स्वापदशायां जाग्रत्सु प्राणादिपञ्चकोच्छासनिश्वासपनोरूपेषूपासनार्थं अग्निहोत्रसंपतिं दिदर्शयिषु तत्र व्याप्रिथमाणं मन एव यजमानः, अपानो मूलाधारस्थतया गार्हपत्यः, तत्सन्निहितो व्यानश्चान्वाहार्यपचनशब्दितो दक्षिणाग्निः, अपानवायुमूलकः प्राणो गार्हपत्यात् प्रणीयमानाहवनीयतुल्यतया आहवनीयः, तदाधारकावुच्छासनिश्वासौ द्वे आहवनीये इतिनिर्दिष्टाहुतिद्वयं. उछ्वासनिश्वासहेयभूतः समानो वायुः आहुती समं नयतीति निर्देशयोग्याध्वर्युः, उदानवायुस्तु यजमानस्य लोकान्तरान्नयनहेतुत्वादुदान इत्यग्नि होत्राहुत्यवयवभूतान् यजमानाग्नियाहुतिद्वयाध्वर्युकर्मफलभूतानष्टावपि पदार्थान् प्राणादिपञ्चकोच्छ्वासनिश्वासमनोरूपेष्वष्टाषु दर्शयति-गार्हपत्यो ह वा इति ।


1. आ. पू. 'स' नास्ति ।