पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६ श्रीरङ्गरामानुजभाष्ययुक्ता [ ३.९-१०. अन्तरेति । आदित्यपृथिव्योरन्तराल इत्यर्थः । त्वगिन्द्रियाद्यनुग्राहक इति । अनेन चाक्षुषप्राणानुग्राहकत्वादादित्यस्य प्राणत्वमित्यपि शक्यं वक्तुमिति सूचितम् । तेजो हवा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥९॥ यश्चित्तस्तेनैष प्राणमायाति प्राणस्तजसा युक्तः । सहात्मना यथासङ्कल्पितं लोक नतति ॥ १० ॥ तेजो ह वा उदान इति । बाह्यं तेज उन्नयनहेतुत्वादुदान इत्यर्थः । तस्मादिति । यस्माद्धेतोस्तेजस एवोदानशब्दितोन्नयनहेतुत्वं, तस्मादेव उपशान्त- तेजाः अपगतदेहौप्ण्यःसन् एषः मुमूर्षुजींवः यच्चित्तः यस्मिंश्चित्तं यस्य स यञ्चित्तः यत्काम इति यावत् । यादृशमनुष्यदेवादिजन्मकामो भवति तत्कामनावशेन पुनर्भव- शब्दितां पुनरुत्पत्तिं प्राप्तुं “वाड्मनसि संपद्यते " " वाड्मनसि दर्शनाच्छन्दाच्चे ति श्रुतिसूत्र तद्भाष्योक्तरीत्या मनसा संश्लेषविशेष मापन्नैर्वागादिभिरिन्द्रियैः सहितं प्राणं स मुमूर्षु जीव आयाति । यद्यपि “ इममात्मानमन्तकाले सर्वै प्राणा अभिसमा- यन्ती" ति मुख्यामुख्यप्राणानां जीवोपगम एव श्रूयते, न तु जीवस्य प्राणोपगमः । सूत्रितश्च- " सोऽध्यक्षे तदुपगमादिभ्यः" इति । तदर्थस्तु तदधिकरणभाष्ये उक्तः । तत्र हि — यथा “वाङ्मनसि संपद्यते मनः प्राण"इति वचनानुरोधेन मनः- प्राणयोरेव वाङ्मनसयोस्संपत्तिः, तथा “प्राणस्तेजसीति वचनात् तेजस्येव प्राणः संपद्यत इति प्राप्त उच्यते---" सोऽध्यक्ष"इति। सः प्राणः अध्यक्षे करणाधिपे जीवे संपद्यते । कुतः ?' तदुपगमादिभ्यः । प्राणस्य जीवोपगमस्तावच्छूयते "एवमेवे- ममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ता "ति । तथा जीवेन सह प्राणस्योत्क्रान्तिः श्रूयते “तमुत्क्रामन्तं प्राणोऽनुकामता" ति । प्रतिष्ठा च जीवेन सह श्रूयते- “कस्मिन्नुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिंन्वा प्रतिष्ठिते प्रतिष्ठास्यामिति । एवं जीवेन संयुज्य तेन सह तेजस्संपत्तिरिह “प्राणस्तेजसी "त्युच्यते । यथा 1. मा. ना. पू. 'तेन सः'। 2.प्र. ...सम्पद्यते इत्यत्र”। ३. प्र. 'श्रुति' नास्ति। 4. आ. ना. 'विशेष' नास्ति । 5. प्र. पू. सम्मुमूर्षः। 66 “