पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ श्रीरामानुजभाष्ययुक्ता [२. ९-१० देवानामसीति । वह्नितमः हविषां वाहकतमः । पितृणामिति । मुख्यः पितृप्रीतिहेतुभूतस्त्वमेवेत्यर्थः । अथर्वाङ्गिरसामृषीणां सत्यं उत्कृष्टं चरितं नित्यनैमि- त्तिकादिलक्षणं कर्म त्वमसीत्यर्थः ॥ ८ ॥ वहतीति वह्निः । अतिशयेन वह्नेः वह्नितम इति यौगिकं पदमित्यभिप्रेत्याह--वाह कतम इति । पितृप्रीतीति । पितृभ्यो हविःप्रदानसाधनभूतेन स्वधाशब्देन प्रीतिहेतुर्लक्ष्यत इति भावः । अनेन देवयज्ञः पितृयज्ञः तद्यतिरिक्तं च सर्व कर्म त्वदनुग्रहादेव प्रवर्तत इत्युतम् । इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षं च- रसि सूर्यस्त्वञ्ज्योतिषां पतिः॥९॥ इन्द्रस्त्वमिति । हे प्राण त्वं इन्द्रः परमेश्वर इत्यर्थः । " इदि परमैश्वर्ये" इति हि धातुः । तेजसा सर्वसंहरण सामर्थ्यलक्षणेन तेजसा त्वं रुद्रः रोदनहेतुः । स्थितिकाले परिरक्षकश्चेत्यर्थः । त्वमन्तरिक्ष इति । ज्योतिषां प्रकाशकानां पतिः श्रेष्ठः सूर्यो भूत्वा अन्तरिक्षे चरसि ॥ ९॥ ९. परमेश्वर इति ! अनेन सृष्टिकारणत्वमभिप्रेतम् । स्थितिसंहारकारणत्वं कण्ठोक्तम् । उत्तरार्धेन सूर्यादिसर्व देवतारूपत्वमुच्यते । तथा च सर्वकर्मसमाराध्यसर्वदेवमयस्त्वमित्यस्य मन्त्रस्यार्थ इति भावः । इन्द्रः परमेश्वरस्त्वं तेजसा यज्ञपरिपन्थिभ्यो रक्षोभ्यो यज्ञस्य परिरक्षिता रुदः तेषा रोदयिता पृथिवीस्थानः अग्निः असि । त्वमन्तरिक्षे चरसि अन्तरिक्षस्थानो वायुश्च त्वम् । धुस्थानो ज्योतिषां पतिः सूर्यश्च त्वमित्यपि शक्यं व्याख्यातुम् । यदा त्वमभिवर्षस्यथेमाः प्राणते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥ यदा त्वमभिवर्षसीति । हे प्राण त्वं यदा मेघरूपी अभितो वर्षसि तदा ते त्वदीयाः इमाः प्रजाः आनन्दिन्यो भवन्ति । कस्य हेतो? कामाय 1. न. '... लक्षणं च त्वमेवेत्यर्थः'। 2. पू. 'संहार ...'। 3. भा. "ज्योतिषां पतिः चन्द्र इत्यर्थ इति युक्तम । अन्यथा द्वितीयत्वं पदं व्यर्थ स्थात्” इति टिप्पणी पत्रप्रान्ते लिखिता दृश्यते ।