पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२. ७-८.] प्रश्नोपनिषत् प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजा- स्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥ एवमेष इत्यङ्गुल्या निर्दिश्य परस्परं दर्शयत्वा तद्गुणान् संकीर्त्य पश्चात् तमेव मुख्यप्राणमभिमुखीकृत्य स्तुवन्ति-प्रजापतिश्वस्सीति । त्वं प्रजानां रक्ष- कःसन् प्राणादिवायुरूपेण गर्भे सञ्चरसि । तथा गर्भोत्पादकतया तत्पोषकतया च' पितृरूप एव वर्तमान एवं त्वमुत्पादकत्वप्रातिलोम्येन पुत्रादिरूपेण जायसे । हे प्राण, स्थावरजङ्गमात्मिका इमाः प्रजाः तुभ्यं त्वदर्थाः त्वच्छेषभूताः यतः बलिं अन्नादिकं ते उपहरन्ति । यस्त्वं प्राणनादिव्यापारैः सर्वत्र प्राणिषु प्रतिष्ठितोसीत्यर्थः ॥ ७ ॥ अङ्गुल्येति । प्राणमाहात्म्याज्ञानात् प्रथमं गर्व आसीत् । सङ्कटे समुत्पन्नं स गर्वो गलितः । अज्ञानं तु स्थितम्। तेन परस्परपृच्छन् । कश्च तदधीना अस्मत्स्थितिः । अस्मदपेक्षया को विशेषोऽस्येति । एकैकः स्वस्वविदितमितरेभ्यो ऽकथयत् । एषोऽग्निरित्येक आह । 'देवोऽभि- रप्येतदधीनस्थितिकः । का कथाऽस्मान्प्रति' इति तस्याभिप्रायः । एष सूर्य इत्यर आहेत्येवं क्रमेण बोध्यम् । एवं परस्परोपदेशेन तस्य महिमानं समग्रं ज्ञात्वा तस्मिन् जातभूरिभक्तयः ते सम्बोध्य साक्षात्स्तुतवन्त इति भावः । एतच्छब्दप्रयोगलभ्यस्यार्थस्य गमनिकामात्रमेतन्। अनर्थो- पनिपातसमनन्तरं सम्भ्रान्ताः प्रजापतिमन्यं वा कञ्चित् शरणमुपगम्य प्राणमहिमोपदेशं प्रार्थया- मासुः । तदुपदेश एवाय एषोऽग्निरित्यादिः। ततो जातप्रबोधाः प्राण स्तुवन्ति प्रजापतिश्चर- सीत्यादिने 'त्यपि शक्यं वक्तुः । न चैवं एषोऽग्निरित्यादिमन्त्रद्वयस्य अन्योपदेशत्वे ते स्तुन्व- न्ति' इत्येतद् विरुध्येतेति शङ्क्यम् । ते एषोग्निरित्याद्युपदेशश्रवणेन प्रोताः 'प्रजापतिश्चरसि गर्भे ' इत्यादिना स्तुवन्तीत्यर्थात् । किञ्च मा मोहमाद्यथेति हि पूर्वं तेषां अज्ञानरूपो मोह उक्तः । इदानीं स्तुवन्तीत्यनेन आख्यातानामर्थं ब्रूवतां शक्ति: सहकारिणीति न्यायेन माहात्म्या- ज्ञाने स्तुत्यसम्भवात् तद् ज्ञात्वा स्तुवन्तीत्याक्षिप्यते। तथा चोक्तरीत्या योजना कार्येति न कोऽपि दोषः। अस्मिन् मन्त्र क्रमेण कारणरूपत्वं कार्यरूपत्वं शेषित्वं जीवयितृत्वं चोक्तम् । देवानामसि वह्नितमः पितृणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥ 1.ना.'पोषकतया च'नास्ति. आ. 'च' नास्ति । 2.प्र. 'एक 3. था, ना. बलि हरन्ति' इति मूल तस्येदं भाष्यं च नास्ति । ३.बा. ना. 'लीलोऽस्सीत्यर्थः। 5 नास्ति।