पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२. ५.] प्रश्नोपनिषत् मन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एवं प्रतिष्ठन्त एवं वाङ्मनश्चक्षुःश्रोत्रञ्च । ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥ तेऽश्रद्दधाना इति । ते तद्वाक्ये विश्वासं न कृतवन्तः । ततः स प्राण: एषां गर्वमवलोक्य अहंकारावेशात् अष्टोत्तरशतमर्मस्थानानामुपरि स्वसामर्थ्यं प्रकट- यितुं स्वस्थानात् किञ्चिदुदचलत्' । इवशब्दः अल्पार्थे । साक्षादुत्क्रमणे अप्रतिसमाधेयशरीरविनाशः स्यादिति मत्वा उत्क्रमणमिव कृतवानिति भावः । तस्मिन् मुख्यप्राणे उत्क्रामति इतरे सर्वे प्राणा उदकामन् । तस्मिंस्तु प्रतिष्ठमाने सर्व एवं प्रतिष्ठन्ते । शरीरपातभीत्या पुनः प्रतिष्ठां प्राप्नुवति सति इतरेऽपि प्रतिष्ठिता इत्यर्थः । तत्र दृष्टान्तमाह-तद्यथेति । यथा मधुकरमक्षिकाः तत्र श्रेष्ठां मक्षि- कामुत्क्रामतीमनूत्क्रामन्ति, प्रतिष्ठितायां तस्यां स्वयं प्रतिष्ठिता भवन्ति, एवं वागाद्या: प्राणा मुख्यप्राणानुविधायिनो भवन्तीत्यर्थः । ते प्रीता इति । मुख्यप्राणमाहात्म्य- दर्शनप्रीता वागाद्याः प्राणा मुख्यप्राणं तुष्टुवुरित्यर्थः । स्तौतेर्व्यत्ययात् श्नुः ॥ ४ !! मूले. तेऽश्रद्धधाना' इति । मुख्यप्राणेन भत्सिता आकाशादयः पञ्च तथेति प्रतिपद्य तूष्णीं बभूवुः । वागादयस्तु स्वस्यापि प्राणसमाख्यत्वेन मुख्यप्राणतुल्यत्वाभिमानदिम्ना तत्प्राधान्ये अश्रदधानाः स्पर्धा कुर्वन्त एवासन्निति वागादिमात्रपरामर्शित्वमिह तच्छन्दस्य बोध्यम् । अत एवोत्तरत्र एषामेव ग्रहणं नाकाशादीनाम् | उदक्राममिति । वर्तमानार्थस्या. नन्वयात् व्यत्ययेन लर्थः कल्पनीय इति भावः । अद्याप्येषैव स्थिति रिति व्यञ्जनाय तु श्रुतिर्लटमाश्रयतीति बोध्यम् । प्रातिष्टन्ते प्र आ इत्युपसर्गद्वयपूर्वकात्तिष्ठतेरात्मनेपदम् । तुष्टुवुरिति । पूर्ववध्यत्यय इति भावः । अद्यापि नून स्तुवन्तः सन्तीति व्यञ्जनाय लट् एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः । एष पृथिवी रयिर्देवः सदसञ्चामृतश्च यत् ॥ ५॥ स्तुतिमेवाह -- एषोऽग्निस्तपतीति । एषः मुख्यप्राण: अग्निरुपेण तपतिं । एषः प्राण एव सूर्यः । सर्वेषां प्राणायतस्थितिकत्वात् । “यदधीना यस्य सत्ता तत्त- दित्येव भण्यते " इति रीतिमनुसृत्य सामानाधिकरण्यपदेशो द्रष्टव्यः । रयिर्देवः 1.प्र. 'उचलदिव' 2. पू. 'अमवमित्यर्थः नास्ति । पू. 'दृष्टः'। ना. सामानाधिकरण्येन दृष्टः।