सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ श्रीरङ्गरामानुजभाष्ययुक्ता [२. ३-४. शब्दस्य पुलिङ्गत्वात् एतदिति लिङ्गभेददोषः । एष चासौ बाणश्च एतद्वाणः तमित्येकपद श्रुति- शैलीविरुद्धम् । क्वाप्येवमदर्शनात् । अतः एतदिति विशेष्यवाचकं कृत्वा बाणशब्दो विशेषणतया योजितः । शरीरपरत्वात् सर्वनाम्नः क्लीबता । नियलिङ्गत्वाद्वाणशब्दः पुमानेवेति न कश्चिद्दोष इति । इदमागच्छतीत्यादाविव क्रियाविशेषणतयाऽपि शक्यं योजनमिति द्रष्टव्यम् । अव. लम्ब्येति । स्वरूपं यथा न विशीर्यते तथा रक्षणमवष्टम्भः । कार्यकरणावसरे यत्रा नावसादः तथा रक्षणं धारणमिति भावः । वीत्युपसर्गार्थमाह--अवकाशेति । आकाशकार्यमिदम् । आदिना तत्तद्भूतेन्द्रियकार्यभेदोऽनुसन्धेयः । तान् वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत् पञ्चधा ऽऽत्मानं प्रविमज्यै तद्वाणमवष्टभ्य विधारयामीति ॥ ३॥ तान्वरिष्ठः प्राण उवाच--- मुख्यः प्राण उवाचेत्यर्थः । किमिति ? मा मोहमापद्यथेति । हे आकाशादयः, ईदृशीं विपरीतबुद्धिं मा गच्छत ।अहमेव स्वात्मानं प्राणापानव्यानसमानोदानरूपेण पञ्चवा विभज्य धारयामीति । एवं वदतो मुख्य- प्राणस्यायं भावः । हे आकाशादयः, भवन्तः अवकाशादिप्रातिस्विककार्यक्षमाः । न तु सर्वकार्यक्षमाः । अहन्तु भवतामपि कार्यनिमित्तत्वात् भवत्कार्यक्षमः, मया क्रिय- माणे जीवने तु भवत्सु न कोऽपि क्षम' इति ॥ ३ ॥ कः पुनरेषां वरिष्ठ इति पृष्टवतः शिष्यस्य अयं वरिष्ठ इत्यज्ञातत्वात् ते प्रति वरिष्ठः प्राण इति ज्ञातवत् कथमुच्यत इत्याशय विवृणोति-मुख्यः प्राण इति । पूर्वगन्येषां निर्दिष्ठत्वात् परिशेषेण मुख्यं प्राणमिह विवक्षितं गृहीत्वा तस्य वरिष्ठत्वेन निर्देशात् अयमेव वरिष्ठ इति स्वप्रश्नसमाधनमपि शिष्यः प्रतिपत्स्यत इत्याचार्यो मन्यत इति भावः । आपद्यथेति । पद्यते: परस्मैपदं लड्स्थाने लट च व्यत्ययेनेति बोध्यम् । प्रातिस्विककार्येति । तत्तदसाधारणैकेक- कार्येत्यर्थः । भवत्कार्येति । 'अहमेव एतद्बाणमवष्टभ्य विधारयामी ति तेषामेवोक्तरनूक्तत्वात् तेषां कार्यं स्वायत्तमिति सूचितम् । पञ्चधाऽऽत्मानं विभज्येत्यनेन अन्यसम्बन्धरहितं स्वैकसाध्यं कार्यमभिहितम् । तदाह-मया क्रियमाण इत्यादिना। तेऽश्रद्दधाना बभूवुः । सोऽभिमानादूर्ध्वमुत्क्रमत' इव तस्मि- न्युत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रा- 1. मा. ना. पू. 'विभज्य'। 2. प्र. आ. नस्वित्यादि नास्ति। 3. भा. ना. पू. 'समर्थः। 4. प्र. 'उकामते' 5. प्र. यूं. 'उत्क्रामन्ते'।