पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् तु कलिना यद्यपि विरलप्रचारा कृता तथापि तदनुगृहीतान्वय- मालोकयितुमपि न प्रभवामः । तत्र देवेनावैधातव्यमिति । ७७ महामोहः – (सभयमात्मगतम्) आः, प्रसिद्धमहाप्रभावा सा योगिनी स्वभावाद्विद्वेषिणी चास्माकं दुरुच्छेद्या सा । भवतु । (स्वगतम्) कार्यमत्याहितं भविष्यति । (प्रकाशम् ) तत्र भद्र, अल- मनया शङ्कया । कामक्रोधादिषु प्रतिपक्षेषु कुत्रेयमुदेष्यति । चार्वाक : – तथापि लघीयस्यपि रिपौ नानवहितेन जिगीपुणा भवितव्यम् । यतः- विपाकदारुणो राज्ञां रिपुरल्पोऽप्यरुंतुदः । उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्करः ॥ २७ ॥ महामोहः – (नेपथ्याभिमुखमवलोक्य ) कः कोऽत्र भोः । - शमित्यन्तं सुवोधम् । अत्र पूर्वविलासाख्येनाङ्गेन दृष्टं यद्वीजं मध्ये नष्टम- स्ति विष्णुभक्तिर्नामेत्यादिना पुनर्दृष्टमिति दृष्टनष्टानुस र्पणात्परिसर्पाख्यं प्रति- मुखसन्धेर्द्वितीयमङ्गम् । तदुक्तम्–‘परिसर्प इति प्राहुईष्टनष्टानुसर्पणम्' इति । – तत्रेत्यादि । तन्नार्थे भद्र चार्वाक, अलमनया शङ्कया | अलंशब्दो वारणक्रियापेक्षया । करणत्वात्तृतीया । कामक्रोधेत्यारभ्य यत इत्यन्तं सष्टम् ॥ - विपाकेत्यादि । विपाकेऽवसाने दारुणो भयंकरोऽस्तुदो मर्मस्पृक् । 'अरुर्द्विषद्-' इत्यादिना मुम् । उद्वेजयति दुःखाकरोति ॥ २७ ॥ कः कोऽत्र भोः । द्वारिक- कारणेन कुरुक्षेत्रादिषु । आदिपदसंग्राह्या मायापुरीकेदारबदरिकाश्रमादयस्तेषु देवेन महाराजेन मोहेनेत्यर्थः । विद्या च प्रबोधश्च तयोरुदयः – तदनुगृहीतान्वय- मिति । तया विष्णुभक्त्यानुगृहीतोऽन्वयो वंशो यस्य तमालोकयितुं न प्रभबाम: किमुत साक्षाद्विष्णुभक्तन् । अवधातव्यं सावधानेन भवितव्यम् । — आत्मगतम् । स्वम- नस्येव वदति न बहिरित्यर्थः । आः पीडायान् । प्रतिपक्षेषु शत्रुषु । अनवहितेना- सावधानेन ।—विपाकेति । राज्ञामल्पोऽपि रिपुः बिपाकदारुणो विपाके परिणामे दारुणो दुःखद: । अरुर्मर्मस्थानं तुदतीत्यरुंतुदः । उक्तमर्थं द्रढयति – उद्देजयतीति । उद्वेगं जनयति । शेषं सुगमम् ॥ २७ ॥ कः कोऽत्रेत्यादि महामोह इत्यन्तं स्पष्टम् । १ 'नावधारयितव्यं' इति पाठः । २ ' भवतु (प्रकाशन् ) भद्र' इति पाठः । ३ 'प्रकाशं भद्र' इति पाठः । ८