पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः व्यतीतवेदार्थपथः प्रथीयसीं यथेष्टचेष्टां गमितो महाजनः । तदत्र हेतुर्न कलिर्न चाप्यहं प्रभोः प्रभावो हि तनोति पौरुषम् ||२५|| तत्रोत्तराः पथिकाः पाश्चात्याश्च त्रयीमेव त्याजिताः । मादीनां कैव कथा । अन्यत्रापि प्रायशो जीविकामात्रफलैव त्रयी । यथाहाचार्यः । शमद - ७६ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः ॥ २६ ॥ तेन कुरुक्षेत्रादिषु तावद्देवेन स्वप्नेऽपि विद्याप्रबोधोदयो नाश- ङ्कनीयः । महामोह: ––साधु संपादितम् । महत्खलु तत्तीर्थ व्यर्थी- कृतम् । चार्वाकः – देव, अन्यच्च विज्ञाप्यमस्ति । महामोहः – किं तत् । - चार्वाक :– अस्ति विष्णुभक्तिर्नाम मेहाप्रभावा योगिनी । सा - त्यर्थः ॥ —व्यतीतेत्यादि । महाजनो वैदिकजनः । प्रथीयसीं पृथुतरां यथेष्ट- चेष्टामिच्छानुरूपव्यवहारं गमितः सन् । व्यतीतोऽतिकान्तो वेदमार्गो येन स तथोक्त इति यावत् । अत्र हेतुस्त्वमेव । न कलिः, नाप्यहम् | हि यस्मात्प्रभोः प्रभाव एव पौरुषं तनोति नोपजीविनाम् ॥ २५ ॥ तत्रोत्तरा इत्यारभ्य अन्यच्च विज्ञाप्यमस्तीत्येतदन्तं सुबोधम् ॥ २६ ॥ अस्ति विष्णुभक्तिरित्यादि भवतु प्रका- । - व्यतीतेति । महाजनो धर्मपरो लोको ब्राह्मणादिः । यथेष्टचेष्टामविहितचेष्टां परस्त्री- गमनमद्यपानादिरूपां गमित: प्रापितः । कीदृशो महाजनः । व्यतीतो वेदार्थपन्थाः संध्याग्निहोत्रादिर्यस्मात्सः । कीदृशीं चेष्टाम् । प्रथीयसीं प्रचुराम् । महामोह एव तत्र हेतुरित्याह – तदत्रेति । हि निश्चितम् । अत्र धर्मत्यागेऽहं चार्वाकः कलिव न हेतुर्यतः । तत्तस्मात्कारणात्प्रभुप्रसादः पुरुषस्य कर्म पौरुपं तनोति 1 विस्तारय- तीत्यर्थः ॥ २५ ॥ – त्रयीमेवेति । वेदनय्युक्तधर्मानित्यर्थः । आचार्यों बृहस्पतिः। अग्नीति | त्रिदण्डं त्रयो दण्डा यस्मिन्कर्मणि त्रिदण्डम् । संन्यास इत्यर्थः । भ स्मगुण्ठनं सर्वाङ्गे भस्मोद्धूलनं जीविका जीवनहेतुः ॥ २६ ॥ —तेनेति । तेन - । १ 'प्रभुप्रसादो' इति पाठः । २ 'महानुभावा' इति पाठः ।