पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः शिष्यः – *आचालिअ, एवं खु तित्थिआ आलवन्ति । जं - दुःखमिस्सिदं संसालसुहं पलिहलणीअं त्ति । चार्वाकः– (विहस्स) आः, दुर्बुद्धिविलसितमिदं नरपशूनाम् । त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा । व्रीहीञ्जिहासति सितोत्तमतण्डुलाट्या- न्को नाम भोस्तुषकणोपहितान्हितार्थी ॥ २३ ॥ ७४ - L महामोहः— अये, चिरेण खलु प्रमाणवन्ति वचनानि कर्णसु- खमुपजनयन्ति । (विलोक्य सानन्दम् ) हन्त, प्रियसुहृन्मे चार्वाकः । चार्वाक: – (विलोक्य) एष महाराजो महामोहः । (उपसुल्य) जयतु जयतु महाराजः । एष चार्वाकः प्रणमति । महामोहः— चार्वाक, स्वागतं ते । इहोपविश्यताम् । - -

  • आचार्य, एवं खलु तीर्थिका आलपन्ति । यद्दुःखनिश्रितं

संसारसुखं परिहरणीयमिति । च्छ्रचान्द्रायणादयः, अर्कमरीचिदाहाः पञ्चाग्नितपांसि तैः कुधियामेष देहोपशोषण- विथिः क्व। उभयोः कियदन्तरम् । आलिङ्गनमेव श्रेष्ठमित्यर्थः ॥२२॥ विहस्येत्याद्या. रभ्योपविश्येत्यन्तं सुगमम् ॥ २३ ॥ देवेत्यादि चार्वाकवाक्यम् । एप कलेः प्रणाम रणैः सूर्यसंमुखावलोकनेन तत्किरणैयों दाह: संताप एतान्येव साधनानि तैरि- त्यर्थः ॥ २२ ॥ [शिष्यः– आचार्य, एवं खलु तैथिंका आलपन्ति । यदुःखमिश्रितं संसारसुखं परिहरणीयमिति । ] — त्याज्यं सुखमिति । दुःखेनोपसृष्टं मिश्रितं दु:- खसंवलितं विषयसंगमाद्वनिता दिसंबन्धाज्जन्म यस्य तादृशं सुखं त्याज्यमित्येपा पुंसां मूर्खविचारणा । मूर्खविचारणमेव दृष्टान्तेन प्रकटयति । भोः शिष्य, कः पुमान् हि- तार्थी हितमिष्टमर्थः प्रयोजनमस्सास्तीति हितार्थी सिताः श्वेता अत एव उत्तमास्त- डुलाढयान्पूर्णान्त्रीहीशालींस्तुपकणोपहितांस्तुपकणैर्युक्तान् । नाम इति नि- श्चयेन । जिहासति हातुमिच्छति । न कोऽपीत्यर्थः । यदि त्यक्ष्यति तदा स मूर्ख इत्यर्थः ॥ २३ ॥ - उपजनयन्ति प्रापयन्ति । विलोक्येत्यादि प्रणाम इत्यन्तमतिरो- १ 'विलसितं नर' इति पाठः । २ ' स्वागतं भोः' इति पाठः ।