पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] 11 चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् ७३ लिअ आप्पा घोलघोलतलेहिं पलाअ-सांतवन-सट्टको आप्पासनप्प - हुदिहिं दुःखेहिं कुदो खविजदि । चार्वाकः– धूर्तप्रणीतागमप्रतारितानामाशामोदकैरियं तृप्तिर्मू- र्खाणाम् । पश्य पश्य क्वालिङ्गनं भुजनिपीडितबाहुमूलं भुग्नोन्नतस्तनमनोहरमायताक्ष्याः । भिक्षोपवासनियमार्कमरीचिदा है- होपशोषणविधिः कुधियां व चैषः ॥ २२ ॥ किमित्येतैस्तीर्थैः संसारसौख्यं परिहृत्यात्मा घोरघोरतरैः पराक-सान्तपन-षष्ठ- कात्माशनप्रभृतिभिर्दुःखैः कस्मात्क्षिप्यते । न्तिसूत्रेण मागध्यां भाषायां शकारादेशे प्राप्ते पुलि शब्दे इति प्राप्तौ मागध्यां शौरसेनीवदिति शकारादेशस्य विकल्प इति चन्द्रसेनादय आहुरिति न दोषः । ‘रो लः' इति सूत्रेण मागध्यां रस्य लकारादेश इति रूपसिद्धिः । एवमुत्तरत्र मागधीभाषायां विज्ञेयम् । ग्रन्थविस्तरभयान्नात्र लिख्यते ॥–चार्वाक इति । धूर्तप्रणीतागमास्त्रयीमुख्यास्तैः प्रतारिता वञ्चिताः । आशामोदकैराशाप रिमितैः । मनोमात्रविजृम्भितैरित्यर्थः । मोदकैलकैरियं तृप्तिस्तुष्टिः खर्गादिरूपा मूर्खाणाम बिबेकिनाम् । तदेव द्रढयति– कालिङ्गनमित्यादि । नायिकानायकयोर्भु- जाभ्यां परस्परनिपीडितं बाहुमूलं यस्मिन्नालिङ्गने तत्तथोक्तम् । भुनोन्नतस्तन- मनोहरं गाढालिङ्गनवशाद्भुम्नौ किंचित्कुञ्चितावुन्नतौ च स्तनौ ताभ्यां मनोहर- मत्यन्तमधुरमायताक्ष्या आलिङ्गनं क । भिक्षाटनम् उपवासः, नियमाः कृ- षष्ठकालप्रभृतिभिर्दुःखैः खेद्यते । धूर्तेति । वचकप्रणीतशास्त्रप्रतारितानामाशामो- दकैः । मनसि परिधृतमोदकैरित्यर्थः ॥ – क्वालिङ्गनमिति । आयताक्ष्या विस्तृतलो- चनाया आलिङ्गनं आलिङ्गनजन्यं सुखं क । कुधियां परलोकसुखेप्सूनामेष सकललोकप्रसिद्धो देहोपशोषणविधिः शरीरशोषणकर्तव्यता क्व । परलोके प्रमाणा- भावादिति भावः । कीदृशमालिङ्गनन् । भुजाभ्यां निपीडितं यद्वा होर्मूलं तेन भग्ना उन्नतिर्ययोस्तौ च तौ स्तनौ च ताभ्यां मनोहरम् | देहशोषणविधिः कैः साधनैः । भिक्षा च, उपवास एकादश्यादिश्च नियमश्चान्द्रायणादिश्च, अर्कमरीचिभिः सूर्यकि- , १ 'सहआलप्पहुदिहि दुख्खेहि खविज्जदि' इति पाठः । २ 'बाहुमूलभग्नोन्नत' इति पाठः ।