पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् तदेतद्वां मात्र श्रवणमपि गुरुतरदुरितोदयाय । ( पुनरन्यतो गत्ला ) एते च शैवपाशुपतादयो दुरभ्यस्ताक्षपादमताः पशवः पाषण्डाः । अमीषां संभाषणादपि नरा नरकं यान्ति । तदेते दर्शनपथाहूरतः परिहरणीयाः । ( पुनरन्यतो गला) एते च - गङ्गातीरतरङ्गशीतलशिलाविन्यस्तभाखट्र्सी- संविष्टाः कुशमुष्टिमण्डितमहादण्डाः करण्डोज्ज्वलाः । किमपराध्यते । मतद्वयस्य तुल्यत्वाद्वेदान्तशास्त्रादरः स्वाभिनिवेशमात्रादिति भावः ॥ ४ ॥ एते चेत्यादि । शैवपाशुपतादयः शैवप्रधानं पाशुपतत्रतं येषां ते शैवपाशुपताः । आदिशब्देन शाक्तपाशुपताः संगृह्यन्ते । दुरभ्यस्ताक्षपाद - मताः अक्षपादेन बेदप्रामाण्याङ्गीकारात्तत्प्रामाण्यप्रकारानभिज्ञतया तदभ्यासो दुष्कर इति भावः । पाशः प्रकृतिस्तेन बद्धो जीवः पशुस्तस्य पतिरीश्वरः । 'पशव- न्धने' इत्यस्माद्धातोरौणादिक उप्रत्यये पशुशब्दो निष्पन्नः । प्राकृत उभयोः संवन्धः । अण्वादिकं मलं तस्य प्रेरकः पतिरीश्वरः । स च जगत्कर्ता जगन्नियन्ता । का- र्यरूपप्रपञ्चः कर्तारं विना न सिध्यतीति काव्यलिङ्गानुमानसिद्धः । यथोक्तं वाय- वीयसंहितायां वायुना – 'पशुः पाशः पतिश्चेति कथ्यते तत्रयं क्रमात् । पाशः प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मलकर्मभ्यां शिवः प्रेरक ईश्वरः । अस्ति कश्चिदपर्यन्तं(?) रमणीयगुणाश्रयः ॥ पतिर्विश्वस्य निर्माता पशुपाशविल- क्षणः । अभावे तस्य विश्वस्य दृष्टिरेषा कथं भवेत् ॥ अचेतनलादज्ञवादनयोः पशुपाशयोः । प्रधानपरिमाण्वादि यावत्किंचिदचेतनम् ॥ न कर्तृत्वं स्वयं दृष्टं बुद्धिमत्कारणं विना । जगच कर्तृतापेक्षं कार्यं सावयचं यतः ॥ तस्मात्कार्य कर्तृत्वं पत्युर्न पशुपाशयोः । पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥' इति । अतथ शैवपाशुपतयोर्हेतुकलाद्वेदस्यापि हैतुकतयैव प्रामाण्याङ्गीकाराद्वेद- बाह्यप्राया एव । अत उक्त मनुना – 'हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्च- येत्' इति ॥–गङ्गातीरेत्यादि । वृसीमासनम् । कुशमुष्टिमण्डितमहादण्डाः कुशमुष्टिभिर्मण्डिता अलंकृता मुष्टिर्येषाम् । गृहीतकुशा इत्यर्थः । महान्पूज्य इ- त्यर्थः ॥ ४ ॥ तदेतैरिति । बाङ्मिश्रणं वाचां मिश्रणम् | संभाषणमिति यावत् । दुरितोदयाय पापोत्पत्तये दुःखेनाभ्यस्तमक्षपादमतं कणादशास्त्रं यैस्ते ॥ — गङ्गातीरे- ति । अहो इयाश्चर्ये । दाम्भिका दम्भप्रधानाः धनिनां वित्तानि हरन्ति । की- दृशा दाम्भिकाः । गङ्गातीरे तरङ्गैः शीतला याः शिलास्तासु विन्यरताः प्रक्षिप्ता याः १ 'तदेतैर्वामिश्रणमपि' इति पाठः ।