पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः स्वाध्यायाध्ययनमात्र ( विलोक्य ) एते तावदर्भावधारणविधुराः निरता वेदविष्ठावका एव । (पुनरन्यतो गत्ला) एते च भिक्षामात्रगृ- हीतयतित्रता मुण्डितमुण्डाः पण्डितंमन्या वेदान्तशास्त्रं व्याकुल- यन्ति । ( विहस्य ) प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि चौद्धैः किमपराध्यते ॥ ४ ॥ स्थीयते । भावे यक् । 'अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥' इत्युपदेशः कथं विस्मृत इति भावः । अनया वचनभङ्ग्या ग्रन्थकारः खमाहात्म्यं प्रकटितवानिति विज्ञायते ॥ ३ ॥ — विलो क्येति । अमिनयविशेषः । विलोक्य घटशासिन इति शेषः । एते ताव- दित्यादि । एते घटशासिनः । अर्थज्ञानविधुरा अर्थज्ञानशून्याः । अत एव वेदविप्लावका वेदोपद्रवकारिणः । वेदनाशका इत्यर्थः । एतदुक्तं भवति । स्वाध्या- याध्ययनमर्थावबोधपर्यन्तम् । अर्थावबोधश्चानुष्ठानपर्यन्तः । अर्थावबोधानुष्ठा- नयोरभावे घटशासिनां स्वाध्यायाध्ययनमात्रनिरतानां खत एवायाति वेदवि प्लवत्वमिति । पुनरन्यतो गत्वेत्यभिनयविशेषः । एते चेत्यादि । पण्डितंमन्या विद्वन्मानिनो वेदान्तशास्त्रं व्याकुलयन्ति । वेदान्तशास्त्रतत्त्वमजानाना एव परा- न्मोहयन्तीत्यर्थः । इदानीमहंकारः सेवकवशात्स्वप्रागल्भ्यप्रकटनार्थं परान्वञ्च- यितुं वेदान्ततिद्धं दूषयति – प्रत्यक्षेति । प्रत्यक्षादिप्रमासिद्धविरुद्धार्थावबो- धिनो वेदान्ता यदि शास्त्राणि स्तर्हि वौद्धैः किमपराध्यते । प्रत्यक्षं नाम प्रतिविषयाध्यबसायः साक्षात्कार इत्यर्थः । आदिशब्देनानुमानादिकं गृह्यते । प्रत्यक्षादिप्रमाणानां प्रमा यथार्थानुभवस्तया सिद्धोऽर्थः प्रपञ्चसत्यत्वादिस्तद्वि- रुद्धोऽर्थस्तस्मिन्मिथ्यात्वादिस्तदमिद्धति प्रतिपादयन्तीति तद्विरुद्धार्थाभिधा- यिनो वेदान्ताः शास्त्राणि यदि भवेयुः । बुद्धमुनिकृतानि शास्त्राणि बौद्धानि तैः सूक्ष्मा । दुर्विज्ञेयेत्यर्थः । एवं सति स्वस्थैः पण्डितानामस्माकं न किंचिद्विवेचनी- यमरतीति स्वस्थचित्तैः कथं स्थीयत इत्यर्थः ॥ ३ ॥ विलोक्य । शुद्धवैदिकानिति शेषः । अर्थावधारणाविधुरा अर्थनिश्चयरहिताः । पुनरन्यतो गत्वा विलोक्येति शेषः । भिक्षामात्रेति । भिक्षामात्रार्थं गृहीतं यतिव्रतं यैस्ते भिक्षामात्रं प्रयोजनं न मुक्तिः । गृहीतयतिव्रता नतु यतय इत्यर्थः । मुण्डितं मुण्डं यैस्ते नतु मुण्डितमनस इत्यर्थः । आत्मानं पण्डितं मन्यन्ते ते पण्डितंमन्या: । नतु पण्डिता इत्यर्थः । प्रत्यक्षादीति । प्रत्यक्षादिप्रमासिद्धो योऽर्थंस्तद्विरुद्धो योऽर्थः स्वर्गादिरूपस्तमभिन् दधतीत्येवंशीला वेदान्ता यदि शास्त्राणि तर्हि बौद्धैः किमपराध्यते । न किमपी-