पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् २१ सोऽपि स्ववीर्यादवतार्य भारं भूमेः समुत्खाय कुलं नृपाणाम् । प्रशान्तकोपज्वलनस्तपोभिः श्रीमान्मुनिः शाम्यति जामदग्न्यः ॥८॥ तथायमपि कृतकर्तव्यः संप्रति परमामुपशमनिष्ठां प्राप्तः । येन च विवेकेनेव निर्जित्य कर्ण मोहमिवोर्जितम् । मचेतने कुठार उपचर्यते । निधनसाधनभूतो विश्रुतो जगत्प्रसिद्धः । भवत्यापि श्रुत इति यावत् । भूतस्यापि प्रत्यक्षायमानतयासाविति निर्देशः । राजन्यानां क्षत्रियाणामुच्चा अंसा: कूटाः पर्वतशिखराणि । उपमितसमासः । तेषां त्रुटने छेदने पटु समर्थं यथा भवति तथा रटन्ती शब्दायमाना घोरा भयंकरी रक्तकर्दमितत्वाद्धारा यस्य सः ॥ ७ ॥ — एवं कार्यवशाद्वीररसाद्यनेकरसाक्रा- न्तस्य परशुरामस्य पुनः स्वभावसिद्धां शान्तिरसप्रत्यासत्तिं दर्शयति सोऽपी- त्यादिना | वीराद्यनेकरसाक्रान्तोऽपि श्रीमान्पूज्यो मुनिर्जामदग्न्यः परशुरामः स्ववीर्यात्स्वपराक्रमान्नृपाणां राज्ञां कुलं समुत्खायोन्मूल्य । संहृत्येत्यर्थः । भू- मेर्भारमवतार्य प्रशमय्य । अत्र पाठक्रमो न विवक्षितः । 'अग्निहोत्रं जुहोति' 'यवागूं पचति' इत्यादिवत्पाठक्रमादर्थक्रमस्य बलीयस्त्वात् । प्रशान्तकोपज्वलनः सन् तपोभिः प्रशाम्यति प्रशान्तो भवति । अत्र क्रोधस्यौपाधिकलादुपाधिप्र- शमनेन तत्र प्रशमनं युक्तमिति भावः ॥ ८ ॥ – दृष्टान्तसिद्धमर्थ दान्तिके योजयति–तथायमपीत्यादि । अयं गोपालः कृतं कर्तव्यं कीर्तिवर्मप्रतिष्ठाप नात्मकं स्वकीयं च येन सः संप्रतीदानीं परामुत्कृष्टामुपशम निष्ठामुपशमैकतानत्वं प्राप्तः प्रयातः ॥ पात्रप्रवेशसूचनं कथोद्धात मामुखाङ्गं प्रस्तौति – यने च । वि वेकेनेत्यादि । अस्यायमर्थः । यदा विवेकेन महाराजेन महामोहाख्यं रिपुं नि- जित्य प्रबोधोदयः कृतः । तथा गोपालेन कर्णाख्यं राजानं निर्जित्य कीर्तिधर्मन- पतेरुदयः कृत इति । इवशब्दत्रितयप्रयोगस्तूपमानोपमेयावयवानामपि सादृश्य- - चाकारिं कृतम् । कीदृशे वारिपूरे । नृपाणां राज्ञां बहलो भूयान्वसा शुद्धमांसस्नेहश्च मांसं च मस्तिष्कपङ्कः ललाटान्तर्गतो धातुश्च एतानि प्राग्भारे तीरे यस्य तादृशे । पुनः स कः यस्यासौ कुठार: परशुः । स्त्रियश्च बालाश्च वृद्धाश्च तान्येवावधिस्तदवधि यन्निधनं मारणं तद्विधौ तस्मिन्कर्तव्ये निर्दयोऽतिकठिनः विश्रुतः ख्यातः । कीदृशः कुठारः । राजन्यानामुच्चा येंऽसा: स्कन्धास्तेषां कूटं समुदायस्तस्य ऋथने विनाशे पटुः कुशला रटन्ती शब्दायमाना घोरा भयानका धारा यस्य ॥ ७ ॥ ८ ॥ दान्तिकमाह — तथायमिति । विवेकमोयोर्जयपराजयाभिनयनेन नाट्यं रचयितुं संगतिमारचयति—येनेति । विवेकेनेति । येनोर्जितं बलवन्तं कर्ण निर्जित्य श्री-