पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः अपिच । भगवन्नारायणांशसंभूता भूतहिताय तथाविधाः पौरुषभूषणाः पुरुषाः क्षितिमवतीर्य निष्पादितकृत्याः पुनः शान्तिमेव प्रपद्यन्ते । यथा परशुराममेवाकलयतु भवती तावत् । येन त्रिःसप्तकृत्वो नृपबहुलवसामांसमस्तिष्कपङ्क- प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः । यस्य स्त्रीबालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ राजन्योच्चांसकूटऋथैनपटुरटद्बोरधारः कुठारः ॥ ७ ॥ २० भावकोपशमनादिगुणप्राप्तिर्भवत्येवेति ॥ ६ ॥ — अपिचेलादिना जामदय इत्यन्तेन । [ येनेति ] त्रिःसप्तकृत्वः तिस्रः क्रियाया अभ्यावृत्तयन्त्रिः । ‘द्वि- त्रिचतुर्म्यः सुच्’ इति सुच्प्रत्यये सप्तक्रियाभ्यावृत्तयः सप्तकृतः । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसुच्प्रत्ययः । ततो विशेषणसमासः । त्रिश्च सप्तकृत्वच त्रिःसप्तकृत्व इति । एकविंशतिवारा नित्यर्थः । नृपाणां क्षत्रि- याणां बहुलबसाभिरस्थिगताभिर्वपाभिः मांसैर्मस्तिष्कैमैदोभिरेव पङ्गैः प्राग्भारे उत्कृष्टे भूरि यथा तथा च्युतानि । नृपगलेभ्य इति गम्यते । रुधिराणि तेषां सरितो नद्यस्तासां वारिपूरे जलपूरे । रक्तप्रवाह इत्यर्थः । अभिषेकोऽकारि कृतः । महानुभावानां प्रतिज्ञाननुल्लङ्घनमेव धर्मशास्त्रानुसारीति रक्तनद्यवगाहनं धर्मशास्त्रविरुद्धमिति न मन्तव्यम् । यस्य स्त्रीवालेत्यादि । यस्य परशुरामस्य कुठार इत्यन्वयः । कुठारः परशुः । स्त्रीबालवृद्धावधि स्त्रियो योषितः, बालाः शिशवः, वृद्धा अशीत्यूर्ववयस्कास्तेऽवधिरवसानं यस्य सः । तान्विहायेत्यर्थः । अत एव त्रिःसप्तकृत्वो हननं सेत्स्यति । स चासौ निधनविधिस्तस्मिन्निर्दयः | 'नि- रादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । निधनकर्तुः परशुरामस्य निर्दयत्व- ॥ ६ ॥ — तथाविधास्तादृशाः पुरुषाः पुनः शान्तिमेव प्रपद्यन्ते प्राप्नुवन्ति । किं कृत्वा । क्षितिं प्रति अवतीर्य । किमर्थन् । भूतहिताय पौरुषमेव पुरुषार्थ एव भूषणं येषां ते । तथा निष्पादितान्युरूणि महान्ति कृत्यानि यैः ॥ – येनेति । सोऽपि स्ववीर्यादित्यनेन युग्मम् । सोऽपि श्रीमाजामदग्यो मुनिस्तपोभिः प्रशा- न्तकोपज्वलनः सन् शाम्यति शान्ति गच्छति । किं कृत्वा । नृपाणां कुलं समुत्खाय समुत्पाट्य, भूमेर्भारं स्ववीर्यात्स्वसामर्थ्याीदवतार्य चेति योजना द्वितीय- लोकस्य । अनेन कृतकृत्यता दर्शिता । स क:-

- येन त्रिः सप्तकृत्व इति । त्रिःसप्तकृत्व

एकविंशतिवारं भूरि च्युतं यद्रुधिरं तस्य या सरित्तस्या वारिपूरेऽभिषेकः स्नानं तर्पणं १ 'निष्पादितोरुकृत्या: ' इति पाठ: । २ 'बहलवसा' इति पाठः | ३ 'त्रुटन' इति पाठः।