पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः — पुरुषः – (सानन्दम्) अहो, विघटिततिमिरपटलं प्रभातं संजा- तम् । तथाहि- मोहान्धकारमवधूय विकल्पनिद्रा- मुन्मथ्य कोऽप्यजनि बोधतुषाररश्मिः । श्रद्धाविवेकमतिशान्तियमौदिकेन विश्वात्मकः स्फुरति विष्णुरहं स एषः ॥ ३० ॥ चनीयमित्यर्थः ॥ २९ ॥ परिक्रम्येत्यारभ्य परिष्वजस्वेत्यन्तं सुगमम् । अहो इत्यादि । विघटिततिमिरपटलं निष्कासिताज्ञानसन्तति निवारितध्वान्तजालं च प्रभातं प्रकृष्टः प्रकाशः प्रातःकालच ॥ - मोहान्धकारेति । मोहोऽज्ञानमेवा- न्धकारस्तमिस्रमवधूय तिरस्कृत्य | विकल्पनिद्राम् । विकल्पो नाम जात्यादियो- जनात्मको जगन्द्रमः स एव निद्रा स्वप्नः । निद्राशब्देन रात्रिरपि लक्ष्यते । श्रद्धा- विवेकमतिशान्तियमादिकेन । श्रद्धा गुरुवेदवाक्ययोर्विश्वासः, विवेकमतिर्नि- त्यानित्यवस्तुविवेकविषया, शान्तिरौदासीन्यम्, यमश्चित्तवृत्तिनिरोधः । एतदा- दिकेनैतत्प्रमुखेन ज्ञानसाधनेन विश्वात्मकः सन् यः स्फुरति स एष विष्णुर हम् । अयमर्थः । 'तत्त्वमसि' 'सत्यं ज्ञानमनन्तं ब्रह्म' इति वाक्यानि ब्रह्मो- पदेशवाक्यानि । तदनन्तरभवानि 'अहं स एषः,' 'अहं ब्रह्मास्मि' इत्यादीनि अनुभववाक्यानि । अतश्च पूर्वमुपदेशाख्यमुदाहृतमिति ध्येयम् । अत्र विष्णुरहं स एषः सर्वथा कृतकृत्योऽस्मि विष्णुभक्तेः प्रसादादित्यनेन प्रकृतकार्यस्यानु संहितत्वेनानुसरणात्पूर्वभावाख्यं निर्वहणसंधैर्द्वादशमङ्गम् । 'पूर्वभावः स विज्ञेयः घटलं तिमिरमज्ञानभवं पटलमाच्छादकं विघटितं विनाशितं यस्मिन् एवंभूतं प्रभात मिव संजातं 'संसाररात्र्यपगमाद्बोधः प्रातःक्षणो मतः' इत्युक्तत्वादिति भावः । तदेव दर्शयति — तथा हि । मोहेति । कोऽपि विशिष्याशक्यवचनः | तुपारा हिमा रइम- यो यस्य प्रबोधश्चासौ तुषाररश्मिश्च तादृशः । प्रबोधचन्द्र इत्यर्थः । तथाजनि प्रादु र्भूतः । येन प्रवोधचन्द्रेण कृत्वा । वॆदवोधितफलाबश्यंभावित्वनिश्चयः श्रद्धा, दृश्यम- नात्मदृष्टिरात्मेत्यादिर्विवेकम ति:, शान्तिरिन्द्रियनियमः, यमनियमादिकं व्याख्यातं, विश्वात्मकं जगद्रूपं स एष विष्णुरिति प्रस्फुरति प्रकाशते । किं कृत्वा । मोहः संसा- रहेतुरज्ञानं तमेबान्धकारमावरणमवधूय निरस्य विकल्पो भ्रम एव निंद्रा तामुन्मथ्य त्यक्त्वा । ‘यमादिकेन’ इति पाठे यमादिकेन बोधतुषाररश्मिरजनीत्यन्वयः ॥ ३० ॥ १. 'यमादि येन विश्वात्मकं' इति पाठः ।