पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् (ततः प्रविशति प्रबोधोदयः ।) प्रवोधोदयः - किं वाप्तं किमपोहितं किमुदितं किं वा समुत्सारितं स्यूतं किं नु विलायितं नु किमिदं किंचिन्न वा किंचन । यस्मिन्नभ्युदिते वितर्कपदवीं नैवं समारोहति त्रैलोक्यं सहजप्रकाशदलितं सोऽहं प्रबोधोदयः ॥ २९ ॥ (परिक्रम्य ) एष पुरुषः । यावदुपसर्पामि । (उपसृत्य) भगवन्, प्रबोधचन्द्रोदयोऽहमभिवादये । पुरुषः– (साहादम्) एहि पुत्र, परिष्वजख माम् । (प्रबोधोदयस्तथा करोति ।) - २३९ ‘अद्भुतार्थस्य संप्राप्तिरुपगूहनमुच्यते' इति ॥ २८ ॥ ततः प्रविशतीति । तत्र किं वाप्तमित्यादेरयमर्थः । यस्मिंश्चन्द्रे बोधचन्द्रे उदिते सति त्रैलोक्यं सहज- प्रकाशेन परिपूर्णब्रह्म कारवृत्त्या दलितं बाधितं सदेवमनेन प्रकारेण विवेक- पदवीं विवेकज्ञानविषयतां समारोहति प्राप्नोतीत्यन्वयः । तदेवाह — किं वाप्त- मित्यादिना । त्रैलोक्यमाप्तं किं वा आपोहितं किं वा । न प्राप्तं नापि बाधितमित्यर्थः । उदितं किमुत्सारितं किं वा । नोत्पन्नं नापि नष्टमित्यर्थः । स्यूतं किं नु विलायितं किमिदं नु । आकाशादिक्रमेणाविर्भावकार्यस्य कारणे विलय इत्येत- दपि न वास्तवमित्यर्थः । इदं जगत् किं वा नवा किंचन | सदत्त्वाभ्यामनिर्व- नकालार्थः ॥ २८ ॥ किं व्याप्तमिति । सोऽहं प्रबोधोदयोऽस्मि । स कः । यस्मिन्प्र बोधेऽभ्युदिते जाते त्रैलोक्यं जगत् एवमनेन प्रकारेण वितर्कपदवीं तर्कविषयं न स मारोहति न प्राप्नोति । कीदृशं त्रैलोक्यम् | सहजप्रकाशेन स्वाभाविकप्रकाशेन दलितं विनाशितन् । तर्कमेव प्रकटयति । किं व्याप्तं किमाक्रान्तम्, किमपोहितं दूरीकृतम्, किमु हृतं नीतम्, किंवा किमु समुत्सारितमपसारितम्, किं नु स्यूतं उच्चावचवस्त्रवत्समीकृतं, किमिदं नु विलायितं स्त्यानष्टतवद्रवीकृतं किंचिदस्तीति शेषः । वा इत्यथवा | किंचन किमपि नास्तीत्यर्थः । नु किमित्यादि वितर्काऽर्थे । आत्मप्रबोधे सम्यगुदिते सांसारि कत्रैलोक्यविषयानेकतर्कंकर्कशा परिभावना विलीयते । अन्यथा तर्कदुर्गमप्रकारविकार- परिखाभिरावृतो न कथंचन गणयतीति भावः ॥ २९ ॥ निर्विकल्परूपतया विद्याप्र बोधयोराकारो निरूपयितुं न शक्यत इति तयोरवस्थैव पात्रद्वारा निरूपितेति ज्ञेयम् । यथायोग्यसंभावनया पुरुषे प्रबोधस्य जातत्वाद्वत्स इति संबोधनन् । विघटिततिमिर- १. 'किं व्याप्तं' इति पाठः ।