पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २१९ राजा – ( सोपहासम् ।) अहो धूमान्धकारश्यामलितदृशो दुष्प्र ज्ञत्वं यज्ञविद्यायाः । येनैवं कुतर्कोपहता । अयः स्वभावादचलं बलाचल- त्यचेतनं चुम्बकसंनिधाविव । तनोति विश्वेक्षितुरीक्षितेरिता जगन्ति मायेश्वरतेय मीशितुः ॥ १६ ॥ तस्मात्तमोन्धनामियमनीश्वरदृष्टिः । अबोधप्रभवं संसारं क- र्मभिः शमयन्ती यज्ञविद्या नूनमन्धतमसमन्धकारेणापि निनीषति । येनैवमित्यादि । कुतर्कः यदि कर्तृत्वं न स्यात् ऐश्वर्यमपि न स्यादिति । तस्योत्तरमाह–अयः स्वभावादिति । अयो लोहपिण्डः खभावादचलम् । बलात्प्रसिद्धहेत्वन्तराभावेऽपीत्यर्थः । यथा अयःपिण्डः चुम्बकसन्निधौ चलो भवति तथा विश्वेक्षितुर्विश्वसाक्षिण ईक्षितेरिता ईक्षणेन प्रेरिता माया जगन्ति तनोतीति यत् इयमेवेशितुः परमेशस्येश्वरता ऐश्वर्यम् । परिणममानमाया- धिष्ठातृब्रह्मैवेश्वर इति भावः । अतो जगत्कर्तृत्वमीश्वरत्वं च मायिकमे- वेति भावः ॥ १६ ॥ तस्मादिति । तमोन्धानामज्ञानावृतचित्तानामनीश्वरदृष्टि- रीश्वराभावबुद्धिः ‘क्रियाभवोच्छेदकरी न वस्तुधीः' इति यदुक्तं तदपाकरोति । दुष्प्रज्ञत्वं दुर्बुद्धित्वम् । दुर्बुद्धित्वमेवाह – येनैवमिति । येन हेतुना एवं पूर्वोक्तप्रकारेण कुतकेंणासत्तकेंणोपहता विमोहिता । तर्कासत्त्वं व्यनक्ति – अयः स्वभावेति । ईशितुरी- श्वरस्य माया मूलाविद्या जगन्ति भुवनानि तनोत्युत्पादयति मायाप्रेरकत्वेनेश्वरस्यापि चेष्टावत्त्वमित्याशय मायां विशिनष्टि । कीदृशी माया । विश्वेक्षितुर्विश्वसाक्षिण ईक्षितेन ईक्षणमात्रेणेरिता | भगवदीक्षणप्रेरितमायायाः सृष्टिकर्तृत्वं न तु सिसृक्षायुपा- घिविशिष्टस्य कर्तृत्वमीश्वरस्येति भावः । नन्वचेतनं चेतनाधिष्ठितमेव कार्यकरं दृष्टं यथा चक्षुरादि, माया त्वचेतना कथमन्येपानीक्षणमात्रेण कर्त्रीति वदन् न लज्जस इत्याशय दृष्टान्तेनोपपादयति — अय इति । स्वभावादचेतनं चेतनाशून्यमत एवाचलं जडमयो लोहं लोहचुम्बकपाषाणस्य संनिधौ समीपे यथा बलाच्चलति एवमचेतनाऽवस्तुभूतापि माया विश्वेक्षितुरीक्षणेरिता जगन्निर्माति । इयमेवेश्वरता ईश्वरस्येति भावः ॥ १६ ॥ इह जगति यदज्ञानाद्रज्जुभुजङ्गाद्याविर्भवति तज्ज्ञाना- देव तिरो भवति न कर्मभिरविरोधादित्यभिप्रेत्याह – अप्रबोधेति । अप्रबोधज्ञानात् प्रभवो जन्म यस्य तादृशं संसारं कर्मभिः शमयन्ती यज्ञविद्या नूनं निश्चयेन गाढत- १. 'न्धानामेवेयमीदृशी दृष्टि: । अप्रबोधप्रभवं' इति पाठः ।