पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ प्रबोधचन्द्रोदयम् कुर्वन्क्रिया एव नरो भवच्छिदः [षष्ठोऽङ्कः शतं समाः शान्तमना जिजीविषेत् ॥ १५ ॥ तन्मे नातिप्रयोजनं भवत्याः परिग्रहेण । तथापि यदि कर्तारं भोक्तारं पुरुषं स्तुवन्ती भवती कियन्तं कालमत्र वस्तुमिच्छति । को दोषः । मस्ययाजी मीयतां ३ इति 'विचार्यमाणानाम्' इति द्रुत उत्तरं पक्षं प्रतिपादयति । 'जीवन्वा एष ऋतून प्येति' इति । एष यजमानो जीवन्प्राणधारणं कुर्वन्नपि वस- न्तादिऋतून् ऋत्वात्मकं संवत्सरस्वरूपप्रजापतिशब्दवाच्यं नित्यनिरतिशयब्रह्मा- नन्दखरूपमेति प्राप्नोति । जीवन्मुक्तस्य ऋलात्मनावस्थानात्तन्मरणं नास्तीति हृद्भुतोऽर्थः । चातुर्मास्ययाजी प्रमीयतामिति व्यवहितस्य प्रशब्दस्यान्वयः । यदि वसन्तात्प्रमीयतामिति वसन्ते प्रमीयत इत्यर्थः । 'सुपां सुलुक्' इत्यादिना पूर्वस- वर्णदीर्घः । वसन्तो भवति । शेषं स्पष्टम् । प्रजापतिर्वावैष इति । एष यजमानो जीवात्मा प्रजापतिर्वाव प्रजापतिरेव । अयमर्थः । जीवात्मा सच्चिदानन्दरूपः स च क्लेशकर्मविपाकाद्यैर्मलैः परामर्शात्कलुषीकृतो निलनैमित्तिकैः कर्मभिः कालु- प्यापनयने कृते भस्मादिकैद्रव्यैर्घर्षणेन कर्मणा दर्पणस्य स्वस्वरूपव्याप्तिवत् जी- वात्मा सच्चिदानन्दनित्यनिरतिशय ब्रह्मस्वरूपतयावभासते । नच दियोहादावज्ञान- निवर्तकं ज्ञानमदृष्टम् । अतो देहात्मभ्रान्तिनिवर्तकं ज्ञानमेव न कर्मेति वाच्यम् । स्थू- लोऽहमित्यादिप्रलयानां गौणत्वेनाङ्गीकारादिति । न च'न कर्मणा न प्रजया' इत्यादि- श्रुतिभिः कर्मनिषेध इति वाच्यम् । पश्वादिफलल्यागश्रुतिपरत्वात् न स्वार्थपरत्वात् । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुतिसहस्रेषु ज्योतिष्टोमादिकर्मणां खर्गश ब्दाभिधेयमोक्षसाधनत्वेन साक्षात्प्रतिपादनादिति याज्ञिकमतसंक्षेपः । तदेतदभिधा- याह–कुर्वन्क्रिया एवेति । तथा च श्रूयते 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इत्यादि । 'न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते' इति ॥ १५ ॥ तन्मे इत्यारभ्य यज्ञविद्याया इत्यन्तं सुगमम् । स्तुवन्तीत्यत्र कर्त्रात्मस्तुतिपरत्वमात्रमुपनिषदां सह्यत इति भावः ॥ उपनिषद्रहस्यं निरस्यति- –न वस्तुधीरिति । वस्तु कालत्रयावाध्यं परं ब्रह्म तदाकारा धीस्तत्साक्षात्कारः न भवच्छेदहेतुरित्यर्थः । कर्म कुर्वतां जीवनमपि सुन्दरमित्याह- कुर्वन्निति । अतएव हेतोर्नरो जीवः भवच्छिदः संसारविच्छेदिकाः क्रियाः कर्माणि कुर्वन्नेव शान्तमनाः सावधानचित्तः शतं समा वर्षाणि जिजीविषेत् प्राणान् धर्तु- मिच्छेत् । कर्मिणामेव जीवनमन्येषां भस्नेव निःश्वसितमिति भावः ॥ १५ ॥ परिग्रहेण स्वीकारेण । धूम एवान्धकारस्तेन । श्यामलिता मलिना जाता दृग्दृष्टिर्यस्याः सा तस्याः ।