पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् १७१ विष्णुभक्तिः–ततस्ततः ।

श्रद्धा – ततो देवि, विकटललाटतटताण्डवितभ्रुकुटिना क्रु- द्धेन महामोहेनाभिहितम् अनुभवत्वस्य दुर्नयपरिपाकस्य विवेक- हतकः फलमित्यभिधाय स्वयं पाखण्डागमाः पाखण्डतर्कशास्त्रैः समं समराय प्रथमं समुद्योजिताः । अत्रान्तरेऽस्माकमपि सैन्यशिरसि - वेदोपवेदाङ्गपुराणधर्मशास्त्रेतिहासादिभिरुच्छ्रितश्रीः । सरस्वती पद्मधरा शशाङ्कसंकाशकान्तिः सहसाविरासीत् ॥ ६ ॥ प्ररोचनां विचलनमादानं च त्रयोदश ॥' इति । एतेषां स्वरूपं सोदाहरणं निरू- पयिष्यामः ॥ ५ ॥ विकटेत्यादि । क्रोधाद्विकृते ललाटतटे ताण्डविता संजात- ताण्डवा भ्रुकुटी ब्रूविक्षेपो यस्य तेन महामोहेन समुद्योजिताः । प्रस्थापिता इत्यर्थः । विवेकहतकः इति गालिप्रदानमेतत् । पाखण्डतर्कशास्त्रैस्तदीयैः शास्त्रैः । अत्रान्तरे- Sस्मिन्नवसरे । सैन्य शिरसि नासीरे। अत्र अपवादो नामावमर्शसन्धेः प्रथममङ्गम् । ‘अपवादस्तु दोषप्रख्यापनात्मकः' इति तल्लक्षणम् । दुर्नयपरिपाकस्य विवेकहतक इत्यनेन विनयराहित्य(विवेकराहित्य) दोषप्रख्यापनात् । वेदोपवेदाङ्गेत्यादि । वेदा ऋग्यजुःसामाथर्वणाः । उपवेदाः ऋग्वेदस्यायुर्वेद उपवेदः । यजुर्वेदस्य धनुर्वेद उपवेदः। सामवेदस्य गान्धर्व उपवेदः । अथर्वणवेदस्य शास्त्राण्युपवेदः वा- शब्दो विकल्पे | ईकारो लक्ष्मीवाचकः । विविधां स्वर्गापवर्गरूपां लक्ष्मीं ददातीति वेदः । एवमुपवेदशब्दार्थः । अङ्गानि शिक्षादीनि षट् । पुराणानि ब्राह्मादीन्यष्टा- सन्तु । भवन्त्वित्यर्थः ॥ ५ ॥ ततस्ततः । पुनः पुनरित्यर्थः । तत इति । विकटा बिपमा ललाटतटे भालफलके ताण्डविता नर्तिता भ्रुकुटिर्भ्रर्येन तादृशेन महामोद्देनाभिहितमुक्तम् । किमुक्तं तदाह । अनुभवविति । दुर्नयो दुर्नीतिस्तस्याः परिपाक: फलं तस्य । विवेकहतकः विवेकप्रेतः । पाखण्डागमाः सुगत चार्वाकयोगाचा- रजैनकापालिकाद्यागमाः तेषां पाखण्डतर्क प्रतिपादकानि शास्त्राणि तैः सह सम- राय संग्रामाय समुद्योजिताः समुद्योगवन्तः कृताः । अत्रेति । अत्रान्तरे एतस्मिन् समये । सैन्यशिरसि सैन्यमस्तके | – वेदेति । सरस्वती सहसाकस्सादाविरासीत्प्रक- टीबभूव । कीदृशी सरस्वती । वेदाश्धत्वारः । उपवेदा आयुर्वेदधनुर्वेदगान्धर्वार्थशा- स्त्राणि । अङ्गानि शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति षट् । आगमा नारदपञ्चरात्ररुद्गयामलादयः । पुराणानि मात्स्यमार्कण्डेयादीन्यष्टादश । धर्मशा- त्राणि मन्वादिस्मृतयोऽष्टादश | तावल उपरमृतयः । इतिहासा महाभारतादयः ।